सामग्री पर जाएँ
सर्वकोश
वराह पुराण

वराह पुराण

Varaha Purana

महर्षि वेदव्यास द्वारा

DevanagariHindipublished414 पृष्ठ

पृष्ठ 393, कुल 414 में से

संदर्भ में पढ़ें
पृष्ठ 393
स्नानं कृत्वा यथान्यायं कृत्याभ्यर्च्य विधानतः ।
मदीयं प्रवरं लोकमनन्तमधिगच्छति ॥ ८८ ॥
अधौताम्बरसंवीतः केशवेशं विमुच्य च ।
अकृत्वा पादशौचं च आचान्तोऽप्याचमन्त्यजेत् ॥ ८९ ॥
न स्वापयेन्न चोत्थापयेन्न च पञ्चामृतैः स्नापयेत् ।
न च मन्त्रैरुपहरेन्नोपचारैरुपाचरेत् ॥ ९० ॥
प्रणमेन्न च मां मूढः स्तवैर्वा नोपतिष्ठते ।
एवंविधस्तु मां मुक्त्वा याति घोरं यमक्षयम् ॥ ९१ ॥
यस्तु मत्कर्मनिरतो यत्नवान् वैष्णवो द्विजः ।
नित्यं कुर्याद्यथान्यायं मद्भावगतमानसः ॥ ९२ ॥
स मां प्राप्नोति तं दृष्ट्वा सर्वमङ्गलमङ्गले ।
प्रसीदामि वरारोहे ! सुदुर्लभतमो ह्यहम् ॥ ९३ ॥
अस्पृश्यस्पर्शनाच्छूद्रस्पर्शनाद्वा न संशयेत् ।
गौडं पापरसं यत्तु सुरापानसमं भवेत् ॥ ९४ ॥
यदा पतति वै भूमौ मद्रूपे भक्तितः शिवे ।
गोमूत्रेण तु तद् द्रव्य