सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 97, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 97

( ४८ ) सिद्धान्तकौमुद्याम्-
दीर्घस्त्वारम्भसामर्थ्यात्परिभाषां बाधत इत्युक्तम् ॥ प्ररीणाम् । सुनु । सुनुनी सुनूनि ।
सुनुना । सुनुने । इत्यादि ॥ ॥
इत्यजन्तनपुंसकलिङ्गप्रकरणम् ।
अथ हलन्तपुँल्लिङ्गप्रकरणम् ।
हो ढः ॥ ८।२।३१ ॥ हस्य ढः स्याज्झलि पदान्ते च । हल्ङ्याबिति सुलोपः । पदान्त-
त्वाद्धस्य ढः । जश्त्वचर्त्वे । लिट् । लिड् । लिहौ । लिहः । लिहम् । लिहौ । लिहः ।
लिहा । लिड्भ्याम् । लिट्सु । लिट्त्सु ॥ दादेर्धातोर्घः ॥ ८।२।३२ ॥ उपदेशे दादेर्धातो-
र्हस्य घः स्याज्झलि पदान्ते च ॥ उपदेशे किम् ? अधोगित्यत्र यथा स्यात् । दॉमलिहमात्म-
न इच्छति दामलिह्यति । ततः क्विप् दामलिट् । अत्र मा भूत् ॥ एकाचो बशो भष्
झषन्तस्य स्ध्व