सामग्री पर जाएँ
सर्वकोश
वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

पृष्ठ 72, कुल 835 में से

संदर्भ में पढ़ें
पृष्ठ 72

द्धलि सर्वेषां मतेन ॥ भो देवाः । भो लक्ष्मि । भो विद्वद्वृन्द । भगो नमस्ते । अघो याहि।
देवा नम्याः । देवा यान्ति ॥ हलि किम् ? देवायिह ॥ रो सुपि ।८।२।६९ ॥ अह्नो रेफादेशः
स्यान्न तु सुपि । रोरपवादः ॥ अहरहः । अहर्गणः ॥ असुपि किम् ? अहोभ्याम् । अत्राहन्निति
रुत्वम् ॥ रूपरात्रिर्थन्तरेषु रुत्वं वाच्यम्* ॥ अहोरूपम् । गतमहो रात्रिरेषा । एकदेश-
विकृतस्यानन्यत्वादहोरात्रः । अहोरथन्तरम् । अहरादीनां पत्यादिषु वा रेफः* ॥ विस-
र्गापवादः । अहर्पतिः । गीर्पतिः । धूर्पतिः । पक्षे विसर्गोपध्मानीयौ ॥ रो रि ।८।३।१४॥
रेफस्य रेफे परे लोपः स्यात् ॥ ढ्रलोपे पूर्वस्य दीर्घोऽणः ।६।३।१११ ॥ ढरेफौ लोपय-
तीति तथा तस्मिन्वर्णेडर्थाद् ढकाररेफात्मके परे पूर्वस्याणो दीर्घः स्यात् । पुना रमते । हरी
रम्यः । शंभू राजते ॥ अणः किम् ? तृढः । वृढः । तृहू हिंसायाम् । वृहू उद्यमने ॥ पूर्व-
ग्रहणमनुत्तरपदेऽपि पूर्वमात्रस्य दीर्घार्थम् । लीढः । अजर्घाः ॥ मनस् रथ इत्यत्र रुत्वे कृते हशि
चेत्युत्वे रो रीति लोपे च प्राप्ते ॥ विप्रतिषेधे परं कार्यम् ।१।४।२ ॥ तुल्यबलविरोधे परं
कार्यं स्यात् ॥ इति लोपे प्राप्ते । पूर्वत्रासिद्धमिति रो रीत्यस्यासिद्धत्वादुत्वमेव । मनोरथः ॥
एतत्तदोः सुलोपोऽकोरनञ्समासे हलि ।६।१।१३२ ॥ अककारयोरेतत्तदोर्यः सुस्तस्य
लोपः स्याद्धलि न तु नञ्समासे ॥ एष विष्णुः । स शंभुः । अकोः किम् ? एषैको रुद्रः ॥
अनञ्समासे किम् ? असः शिवः ॥ हलि किम् ? एषोऽत्र ॥ सोऽचि लोपे चेत्पादपूर-
णम् ।६।१।१३४ ॥ सस् इत्यस्य सोर्लोपः स्यादचि पादश्चेल्लोपे सत्येव पूर्यैत । सेमामविद्धि
प्रभृतिं य ईशिषे । इह ऋक्पाद एव गृह्यत इति वामनः ॥ अविशेषाच्छ्लोकपादोऽपीत्यपरे ।
१ ' अहन् ' इति सूत्रमनुवर्ततेऽत आह-अह्न इति ॥ २ भाष्ये वार्तिक एव ' अह्नः ' इत्युपलभ्यते ॥
३ ' ढो ढे लोपः ' इत्यतोऽनुवर्त्याह-लोप इति ॥ ४ तथा ढूलोपम् ' कर्मण्यण् ' ॥ ५ दीर्घपदश्रु