वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 573, कुल 835 में से
संदर्भ में पढ़ेंनम् ॥ न कुपूर्वस्य कृत्तिकाख्या चेत् ॥ अन्त उदात्तो न ॥ कृत्तिका नक्षत्रम् ।
केचित्तु कुपूर्वो य आप् तद्विषयाणामिति व्याख्याय आम्बिका बहुलिका इत्याद्यप्यन्तोदात्तो
नेत्याहुः ॥ घृतादीनां च ॥ अन्त उदात्तः ॥ घृतं मिमिक्षे । आकृतिगणोऽयम् ॥ ज्येष्ठ-
कनिष्ठयोर्वयसि ॥ अन्त उदात्तः स्यात् ॥ ज्येष्ठ आह चमसा । कनिष्ठ आह चतुरः ।
वयसि किम् ? ज्येष्ठः श्रेष्ठः । कनिष्ठोऽल्पिकः । इह नित्त्वादाद्युदात्त एव ॥ बिल्वति-
ष्ययोः स्वरितो वा ॥ अनयोरन्तः स्वरितो वा स्यात् ॥ पक्षे उदात्तः ॥
इति फिट्सूत्रेषु प्रथमः पादः ।
अथ फिट्सूत्रेषु द्वितीयः पादः ।
अथादिः प्राक् शकटेः ॥ अधिकारोऽयम् । शकटिशकट्योरिति यावत् ॥ ह्रस्वान्तस्य
स्त्रीविषयस्य ॥ आदिरुदात्तः स्यात् ॥ वलि