वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 136, कुल 835 में से
संदर्भ में पढ़ेंस्त्रीप्रत्ययप्रकरणम् । ( ८५ )
न्तात्करणादेः स्त्रियां ङीप् स्यात् ॥ वस्त्रक्रीती । क्वचिन्ने-धनक्रीता ॥ क्तादल्पाख्यायाम्
।४।१।५१॥ करणादेः क्तान्तात् स्त्रियां ङीप् स्यादल्पत्वे द्योत्ये ॥ अभ्रलिप्ती द्यौः ॥
बहुव्रीहेश्चान्तोदात्तात् ।४।१।५२ ॥ बहुव्रीहेः क्तान्तादन्तोदात्ताददन्तात् स्त्रियां ङीप् स्यात्॥
जातिपूर्वादिति वक्तव्यम् * ॥ तेन बहुनञ्सुकालमुखादिपूर्वन्न । ऊरुभिन्नी । नेह-
बहुकृता ॥ जातान्तान्न * ॥ दन्तजाता । पाणिगृहीती भार्यायाम् * ॥ पाणिगृही-
तान्या ॥ अस्वाङ्गपूर्वपदाद्वा ।४।१।५३ ॥ पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सुरापीती ।
सुरापीता । अन्तोदात्तात्किम् ? वस्त्रच्छन्ना । अनाच्छादनादित्युदात्तनिषेधः । अत एव पूर्वे-
णापि न ङीप् ॥ स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ।४।१।५४ ॥ असंयोगोपधमुपसर्जनं
यत्स्वाङ्गं तदन्ताददन्तात्प्रातिपदिकाद्वा ङीप् ॥ केशानतिक्रान्ता अतिकेशी । अतिकेशा ।
चन्द्रमुखी । चन्द्रमुखा । संयोगोपधात्तु सुगुल्फा । उपसर्जनात्किम् ? शिखा । स्वाङ्गं त्रिधा ।
अद्रवं मूर्त्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् * ॥
सुस्वेदा । द्रवत्वात् ॥ सुज्ञाना । अमूर्तत्वात् ॥ सुमुखा शाला । अप्राणिस्थत्वात् ॥
सुशोफा । विकारजत्वात् ॥
अतत्स्थं तत्र दृष्टं च * ॥
सुकेशी सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् ॥
तेन चेत्तत्तथा युतम् * ॥
सुस्तनी सुस्तना वा प्रतिमा । प्राणिवदप्राणिसदृशे स्थितत्वात् ॥ नासिकोदरौष्ठजङ्घाद-
न्तकर्णशृङ्गाच्च ।४।१।५५ ॥ एभ्यो वा ङीप् स्यात् । आद्ययोर्बहुव्रीहलक्षणो निषेधो बाध्यते,
पुरस्तादपवादन्यायात् ॥ ओष्ठादीनां पञ्चानां तु 'असंयोगोपधादिति पर्युदासे प्राप्ते वचनम् ,
१ गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक् सुबुत्पत्तेः' इति परिभाषया 'वस्त्र टा
क्रीत' इत्यलौकिकवाक्य एव समासाङ्गीकारेण क्रीतस्यादन्तत्वमव्याहतमिति भावः॥ २ क्वचिन्नेति । 'कर्तृकरणे
कृता बहुलम्' इति सूत्रे बहुलग्रहणात् क्वचित्सुबन्तेन समासे सुपः प्रागेवान्तरङ्गत्वात् टापि जातेऽदन्तत्वाभावान्न
ङीषिति भावः ॥ ३ अभ्रलिप्तीति । सकलायां द्यवि अभ्रलेपाभावात्क्वचिदेव द्यवि अभ्रसंबन्धेन अल्पत्वमिति
भावः ॥ ४ ऊरुत्वस्यानुगतसंस्थानव्यङ्ग्यत्वेन जातित्वात् 'जातिकाळमुखादिभ्योऽनाच्छादनात्-'इति भिन्नशब्द-
स्यान्तोदात्तत्वेन ङीषिति भावः ॥ ५ बहुनञ्सुकालमुखादीनां जातिवाचित्वाभावान्नैव भवति ङीषिति भावः॥
६ 'उपसर्जनात्' इति विशेषोपादानात् 'अनुपसर्जनात्' इति न संबध्यते इति भावः ॥ ७ केशमुखा-
दीनां द्रवभिन्नत्वात् मूर्तिमत्त्वात् प्राणिस्थत्वाद् अविकारजत्वाच्च स्वाङ्गत्वमव्याहतमिति लक्षणसमन्वयः ॥
८ भाष्ये 'शिखा' इति प्रत्युदाहरणदानेन क्रोडादिगणे शिखाशब्दपाठोऽनार्थ इति सूच्यते ॥ ९ इदं
श्लोकवार्तिकम् ॥ १० तत्तद्विशेषणव्यावर्त्यं प्रकटयति ॥ ११ रथ्यायाः प्राणित्वाभावात्तत्र स्थितकेशानां
स्वाङ्गत्वं न स्यादतो लक्षणान्तरमेतदाश्रितमिति भावः ॥ अप्राणिस्थमपि प्राणिनि दृष्टं चेत् तदपि स्वाङ्गमिति
लक्षणान्तरार्थः ॥ १२ प्रतिमास्थितस्तनादीनां प्राणिस्थितिदर्शनयोरभावात् स्वाङ्गत्वाभावेन ङीषोऽनुपपत्ति-
रतो लक्षणान्तरमेतदाश्रितम् । येन स्वाङ्गेन यत् प्राणिरूपं वस्तु यथायुतं भवति तथैवानुगतसंस्थानप्रकारेण
तत्स्वाङ्गसदृशेन तदप्राणिसदृशं युतं भवति चेत् तदा तत्स्वाङ्गसदृशमपि स्वाङ्गमेवेत्यर्थः ॥