सामग्री पर जाएँ
सर्वकोश
वैशेषिक दर्शन (कणाद सूत्र व हिन्दी भाष्य सहित)

वैशेषिक दर्शन (कणाद सूत्र व हिन्दी भाष्य सहित)

Vaisheshika Darshana with Hindi Bhashya

महर्षि कणाद द्वारा

स्रोत: स्वामीमेशिन यन्त्रालय · स्वामीमेशिन यन्त्रालय (उद्गम)

DevanagariSanskritpublished160 पृष्ठ

पृष्ठ 68, कुल 160 में से

संदर्भ में पढ़ें
पृष्ठ 68

६४ वैशेषिकदर्शन-भाषानुवाद

बहुत्वं गतिमत्त्वं च स्पष्टमुपदिष्टमनीशत्वं च ध्वनितमत्रे-
वेति । अणुत्वं नाम सौक्ष्म्यममहत्त्वं परिच्छिन्नत्वमेकदेश-
वृत्तित्वं जीवानां बहुत्वादवगम्यते गतिमत्त्वादपि । ये
खलु जीवा बहवोऽपरिसंख्येया गतिमन्तश्च ते कथं न स्युः
परिच्छिन्नैकदेशवृत्तयः ? तदिदमणुत्वं बहुत्वं गतिमत्त्वं च
जीवग्रामस्य स्मृतमुपनिषत्स्वपि- " एषोऽणुरात्मा चेतसा
वेदितव्यो यस्मिन्प्राणः पञ्चधा संविवेश । प्राणेचित्तं सर्व-
मोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥ '
बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः
सविज्ञेयः स चानन्त्याय कल्पते ", " नित्यो नित्यानां
चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् । तमा-
त्मस्थं येऽनुपश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषा-
म् ", " योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणु-
मन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम् ", " नित्यं विभुं
सर्वगतं सुसूक्ष्मं तदव्ययं तद् भूतयोनिं परिपश्यन्ति धीराः ",
" तस्माच्च देवा बहुधा संप्रसूताः साध्यामनुष्याः पशवो
वयांसि ", तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः ",
"संप्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतरागाः प्रशान्ताः।
ते सर्वगं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति",
" ततो यदुत्तरतरं तदरूपमनामयम् । य एतद्विदुरमृतास्ते
भवन्त्यथेतरे दुःखमेवापि यन्ति ", " आराग्रमात्रोह्यवरो
ऽपि दृष्टः ", " गुणान्वयो यः फलकर्मकर्त्ता कृतस्य तस्यैव
स चोपभोक्ता । स विश्वरूपस्त्रिगुणस्त्रिवर्त्मा प्राणाधिपः