सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 67, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 67

५० उत्तररामचरितं [ २-३० ]
एते ते कुहरेषु गद्गदनदद्गोदावरीवारयो
मेघालम्बितमौलिनीलशिखराः क्षोणीभृतो दक्षिणाः ।
अन्योन्यप्रतिघातसङ्कुलचलत्कल्लोलकोलाहलै-
रुत्तालास्त इमे गभीरपयसः पुण्याः सरित्सङ्गमाः ॥३०॥
( निष्क्रान्ता । )
पञ्चवटीप्रवेशो नाम द्वितीयोऽङ्कः ।
ण्डक्षोपः । उद्वेजिताः उद्वेगं प्रापिता. इत्यर्थः ॥ २९ ॥ अपि चेति ॥ एते
ते कुहरेष्विति ॥ ३० ॥ ते प्रसिद्धाः कुहरेषु गुहाबिलेषु । गद्गदं यथा
तथा नदन्ति गोदावरीवारीणि येषाम् । मेघैः आलम्बिताः मौलयः
शिखराधोभागा येषाम् अत एव ते च ते नीलशिखराः । 'दाक्षिणात्ये च
दक्षिण' इति शब्दकोशः । अन्योन्यं परस्परम् । प्रतिघातैः प्रहारैः ।
संकुले सङ्कीर्णे यथा तथा चलन्तः गच्छन्तश्च ते कल्लोलाः महातरङ्गाः
तेषां कलकलै । 'उत्तालमुखरौ समौ' इति वैजयन्ती । गभीराणि पयांसि
येषु । 'पुण्यः पूतमनेज्यो' इति विक्रमार्कः । सरित्सङ्गमाः नदीसङ्गमाः।
गद्गदमिति शब्दानुकार । 'सकीर्णे सङ्कुले' इति, 'निम्नं गभीरं गम्भीरम्' इति-
चामर । अत्र पूर्वतनवर्णनादस्य वनस्य महारण्यत्वं सूचितम् ॥ 'सरितो यत्र
शैलाश्च तन्महारण्यमुच्यते ।' इति लीलाशुकोक्तेरित्थलमतिविस्तरेण ॥३०॥
इति महाराजपद + उत्तररामचरितसञ्जीवनाख्यटिप्पणे द्वितीयोऽङ्क समाप्त ॥
॥ इति द्वितीयोऽङ्क ॥
१ 'मेघास्तूप' घ. २ 'दक्षिणा.' क-न. + प्रथमाङ्कटीकासमाप्तौ टीका-
कारेण यदासङ्गतं कथितं तत्सर्वमत्राप्यनुसन्धातव्यम्.