सामग्री पर जाएँ
सर्वकोश
उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

उत्तररामचरितम् (महाकवि भवभूति - संस्कृत मूल एवं हिन्दी व्याख्या)

Uttararamacharitam of Bhavabhuti with Hindi Commentary

महाकवि भवभूति / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished439 पृष्ठ

पृष्ठ 119, कुल 439 में से

संदर्भ में पढ़ें
पृष्ठ 119

रमकणलगब्भगब्भिलो सरीरप्फंसो वि तारिसो जेव्व वच्छस्स । जाद पेक्खामि
दाव दे मुहपुण्डरीअं । ( चिबुकमुन्नमय्य निध्याय सबाष्पाकृतम् । ) राएसि
किं ण पेक्खसि णिउणं णिरूवव्वन्तं से मुहं वच्छाए बहुए मुहचन्देण संव-
ददि जेव्व । जात इतोऽपि तावदेहि । अहो न केवलं दरविकसन्नीलोत्पलश्या-
मलोज्ज्वलेन देहबन्धेन कवलितारविन्दकेसरकपायकण्ठकलहंसनिनाददीर्घदीर्घेण
स्वरेण च रामभद्रमनुहरति । ननु कठोरकमलगर्भपक्ष्मलः शरीरस्पर्शोऽपि तादृश
एव वत्सस्य । जात प्रेक्षे तावत्ते मुखपुण्डरीकम् । राजर्षे किं न प्रेक्षसे निपुणं
निरूप्यमाणमस्य मुखं वत्साया वध्वा मुखचन्द्रेण संवदतेव ।
जनकः—पश्यामि सखि पश्यामि ।
कौसल्या—अम्महे उम्मत्तीभूतं विअ मे हिअअं किंपि एदोमुहं विल-
वदि । अहो उन्मत्तीभूतमिव मे हृदयं किमपीतोमुखं विलपति ।
जनकः—
वत्सायाश्च रघूद्वहस्य च शिखावसिञ्चन्निविव्यज्यते
सम्पूर्णप्रतिबिम्बितेव निखिला सैवाकृतिः सा द्युतिः । १
सा वाणी विनयः स एव सहजः पुण्यानुभावोऽप्यसौ
हा हा दैवं किमुत्पथैर्मम मनः पारिप्लवं धावति ॥ २२ ॥
कौसल्या—जाद अत्थि दे मादा सुमरास वा ताइं । जात अस्ति ते
माता स्मरसि वा तातम् ।
लवः—नहि नहि ।
कौसल्या—तदो कस्स तुमं । ततः कस्य त्वम् ।
लवः—भगवतो वाल्मीकेः ।
कौसल्या—अयि जाद कहिदव्वं कहेहि । अयि जात कथितव्यं
कथय ।
क्रमाभिजाल्यानि ये.येषां च परस्परामित्यर्थ । क्रमः परम्परा । 'आभिजात्यं
तु वंशो य' इति लिङ्गानुशासनम् । प्रकारः विध्यन्तरम् । 'पर्यायोऽवसरे क्रम.'
इत्यमर ॥ जात विरे जीव । जात इतोऽपि तावदेहि । सम्महे न केवलं
दरविकसन्नीलोत्पलश्यामलोञ्ज्वलेन देहबन्धेन कवलितारविन्दकेसरकपायक-
ण्ठकलहंसपोषेण धर्षराजुनादनिर्भरदीर्घतरेग स्वरेण रामभद्रमनुहरति । क-
१ 'संस्तुतिः प्रति' न. २ 'देवि' न.