सामग्री पर जाएँ
सर्वकोश
उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

उपवनविनोद (आचार्य शार्ङ्गधर - वृक्षायुर्वेद, भू-जल संधान एवं उद्यान-विज्ञान सटीक)

Upavanavinoda of Sharngadhara with Commentary

आचार्य शार्ङ्गधर (सम्पादक: पं. गिरिजाप्रसाद) द्वारा

DevanagariHindipublished134 पृष्ठ

पृष्ठ 73, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 73

SCIENCE OF ARBORI-HORTICULTURE IN ANCIENT INDIA 65
आम्रैः क्षेमं भल्लातकैर्भयं पीलुभिस्तथारोग्यम् ।
खदिरशमीभ्यां दुर्भिक्षमर्जुनैः^a शोभना वृष्टिः ॥ २३६
पिचुमन्दनागकुसुमैः सुभिक्षमथ^b मारुतः कपित्थेन ।
निचुलैनावृष्टिभयं व्याधिभयं भवति कुटजेन^c ॥ २३७
एते नानावृक्षायुर्वेदशास्त्रेभ्यः ॥
समाप्तः ।

(a) गणनाथ—दुर्भिक्षमर्जुनेन etc.
(b) ,, सुभिक्षमपि etc.
(c) ,, निचुलैनावृष्टिः स्याद्व्याधिभयं वै भवति कुटजेन ॥
एते नीता ह्यत्रा आयुर्वेदादि शास्त्रेभ्यः ।
अन्येऽपि सन्ति बहवस्तेषु च कथिता वनस्पतयः ॥
9