उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)
Upadesha Sahasri of Adi Shankaracharya
आदि शङ्कराचार्य द्वारा
स्रोत: रामकृष्ण मठ · रामकृष्ण मठ (उद्गम)
पृष्ठ 90, कुल 336 में से
संदर्भ में पढ़ेंREITERATION AND REFLECTION 75
pungency, bitterness and astringency, though accepted
as pleasant or unpleasant by the ignorant.
"Thus I who do not consist of smell cannot be
harmed or benefited by it either in its general form or
in its special forms such as, flowers, fragrant pastes,
etc. considered to be pleasant or unpleasant. For the
Śruti¹ says that I am one who am 'eternally devoid of
sound, touch, sight, taste and smell'.
किंच य एव बाह्याः शब्दादयः ते शरीराकारेण संस्थिताः,
तद्ग्राहकैश्च श्रोत्राद्याकारैः अन्तःकरणद्वयतद्विषयाकारेण च,
अन्योन्यसंसर्गित्वात् संहतत्वाच्च सर्वक्रियासु । तत्र एवं सति
विदुषो मम न कश्चित् शत्रुः मित्रं उदासीनो वा अस्ति । तत्र
यदि कश्चित् मिथ्याज्ञानाभिमानेन प्रियं अप्रियं वा प्रयुयुङ्क्षेत
क्रियाफललक्षणं, तन्मृषैव प्रयुयुङ्क्षते सः । तस्य अविषयत्वा-
न्मम—'अव्यक्तोऽयमचिन्त्योऽयं' इति स्मृतेः । तथा सर्वेषां
पञ्चानामपि भूतानां अविकार्यः, अविषयत्वात् । 'अच्छेद्योऽय-
मदाह्योऽयं' इति स्मृतेः । यापि शरीरेन्द्रियसंस्थानमात्रमुपलक्ष्य
मद्भक्तानां विपरीतानां च क्रियाक्रियादिप्रयुयुङ्क्षा, तज्जा च
धर्माधर्मादिप्राप्तिः, सा तेषामेव, न तु मयि अजरे अमृते अभये,
‘नैनं कृताकृते तपतः’, ‘न कर्मणा वर्धते नो कनीयान्’,
‘सबाह्याभ्यन्तरो ह्यजः’, ‘न लिप्यते लोकदुःखेन बाह्यः’
इत्यादिश्रुतिस्मृतिभ्यः । अनात्मवस्तुनश्च असत्त्वात् इति परमो
हेतुः । आत्मनश्च अद्वयत्वविषयाणि, द्वयस्यासत्त्वात्, यानि
सर्वाणि उपनिषद्वाक्यानि, विस्तरशः समीक्षितव्यानि समीक्षित-
व्यानीति ॥ ११६ ॥
¹ Kath. U., 3. 15.