सामग्री पर जाएँ
सर्वकोश
उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)

उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)

Upadesha Sahasri of Adi Shankaracharya

आदि शङ्कराचार्य द्वारा

स्रोत: रामकृष्ण मठ · रामकृष्ण मठ (उद्गम)

DevanagariSanskritpublished336 पृष्ठ

पृष्ठ 76, कुल 336 में से

संदर्भ में पढ़ें
पृष्ठ 76

THE KNOWLEDGE OF THE CHANGELESS 61
if memory and desire have their own agents for their
objects.
ननु प्रमातृविषयावगत्यनुत्पत्तौ अनवगत एव प्रमाता स्या-
दिति चेत् ॥ १०० ॥
100. Disciple.—“But the Knower remains unknown
if there is no knowledge which has for its object the
Knower.”
न, अवगन्तुः अवगतेः अवगन्तव्यविषयत्वात् । अवगन्तृ-
विषयत्वे च अनवस्था पूर्ववत् स्यात् । अवगतिश्च आत्मनि
कूटस्थनित्यात्मज्योतिः अन्यतः अनपेक्षैव सिद्धा, अग्न्यादि-
त्याद्युष्णप्रकाशवत्, इति पूर्वमेव प्रसाधितम् । अवगतेः चैत-
न्यात्मज्योतिषः स्वात्मनि अनित्यत्वे आत्मनः स्वार्थतानुपपत्तिः,
कार्यकारणसंघातवत् संहतत्वात् परार्थ्यं दोषवत्त्वं च अवोचाम ।
कथम् ? चैतन्यात्मज्योतिषः स्वात्मनि अनित्यत्वे स्मृत्यादि-
व्यवधानात् सान्तर्गतत्वम् । ततश्च तस्य चैतन्यज्योतिषः प्रागु-
त्पत्तेः प्रध्वंसाच्चोर्ध्वं आत्मन्येव अभावात्, चक्षुरादीनामिव संह-
तत्वान्, परार्थ्यं स्यात् । यदा च तत् उत्पन्नं आत्मनि विद्यते,
न तदा आत्मनः स्वार्थत्वम् । तद्भावाभावापेक्षा हि आत्माना-
त्मनोः स्वार्थत्वपरार्थत्वसिद्धिः । तस्मात् आत्मनः अन्यनिर-
पेक्षमेव नित्यचैतन्यज्योतिष्ट्वं सिद्धम् ॥ १०१ ॥
101. Teacher.—“No. The knowledge of the knower
has for its object the thing to be known. If it have for
its object the knower there arises a regressus ad infinitum