सामग्री पर जाएँ
सर्वकोश
उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)

उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)

Upadesha Sahasri of Adi Shankaracharya

आदि शङ्कराचार्य द्वारा

स्रोत: रामकृष्ण मठ · रामकृष्ण मठ (उद्गम)

DevanagariSanskritpublished336 पृष्ठ

पृष्ठ 74, कुल 336 में से

संदर्भ में पढ़ें
पृष्ठ 74

THE KNOWLEDGE OF THE CHANGELESS 59
अभावेऽपि अपेक्षाभावः, नित्यत्वात् इति चेत् । न । अव-
गतेरेव आत्मनि सद्भावादिति परिहृतमेतत् ॥ ९८ ॥
98. Disciple.—"(If the Knowledge of the Self be
independent of an evidence on the ground that It is
eternal) why should the absence ¹ of the result ² of an
evidence with regard to the Self be not so on the same
ground ? "
Teacher.—" No, it has been refuted on the ground
that it is pure Knowledge that is in the Self." ³
प्रमातुश्चेत् प्रमाणापेक्षासिद्धिः, कस्य प्रमित्सा स्यात् ?
यस्य प्रमित्सा स एव प्रमाता अभ्युपगम्यते । तदीया च
प्रमित्सा प्रमेयविषयैव, न प्रमातृविषया । प्रमातृविषयत्वे अन-
वस्थाप्रसङ्गात् प्रमातुः तदिच्छायाश्च, तस्याप्यन्यः प्रमाता,
तस्याप्यन्य इति । एवमेव इच्छायाः प्रमातृविषयत्वे । प्रमातु-
रात्मनः अव्यवहितत्वाच्च प्रमेयत्वानुपपत्तिः । लोके हि प्रमेयं
नाम प्रमातुः इच्छा-स्मृति प्रयत्न-प्रमाणजन्मव्यवहितं सिद्ध्यति,
नान्यथा अवगतिः प्रमेयविषया दृष्टा । नच प्रमातुः प्रमाता
स्वस्य स्वयमेव केनचित् व्यवहितः कल्पयितुं शक्यः इच्छादी-
नामन्यतमेनापि । स्मृतिश्च स्मर्तव्यविषया, न स्मर्तृविषया ।
तथा इच्छायाः इष्टविषयत्वमेव, न इच्छावद्विषयत्वम् । स्मर्त्रि-
¹ The disciple thinks that the Self does not exist as It is not
known by an evidence. ² True Knowledge. See foot-note 1,
para 94 above. ³ i.e., the Self is of the nature of pure Know-
ledge and so It exists independent of every evidence. See paras
93 and 97 above.