सामग्री पर जाएँ
सर्वकोश
उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)

उपदेशसाहस्री (आदि शङ्कराचार्य - गद्य व पद्य भाग)

Upadesha Sahasri of Adi Shankaracharya

आदि शङ्कराचार्य द्वारा

स्रोत: रामकृष्ण मठ · रामकृष्ण मठ (उद्गम)

DevanagariSanskritpublished336 पृष्ठ

पृष्ठ 71, कुल 336 में से

संदर्भ में पढ़ें
पृष्ठ 71

56
A THOUSAND TEACHINGS
self-existent. As Pure Consciousness, the Self, is self-
existent no one can disprove Its independence of other
things inasmuch as It never ceases to exist."
ननु व्यभिचारो दर्शितो मया, सुषुप्ते न पश्यामीति ॥ ९२ ॥
92. Disciple.—" But I have shown ¹ an exception,²
namely, I have no consciousness in deep sleep."
न । व्याहतत्वात् । कथं व्याघातः ? पश्यतस्तव न पश्यामि
इति व्याहतं वचनम् । नहि कदाचित् भगवन्, सुषुप्ते मया
चैतन्यं अन्यद्वा किंचित् दृष्टम् । पश्यन् तर्हि सुषुप्ते त्वम् ।
यस्मात् दृष्टमेव प्रतिषेधसि, न दृष्टिम् । या तव दृष्टिः तत् चैत-
न्यमिति मयोक्तम् । यया त्वं विद्यमानया न किंचित् दृष्टमिति
प्रतिषेधसि, सा दृष्टिः त्वच्चैतन्यम् । तर्हि सर्वत्र अव्यभिचारात्
कूटस्थनित्यत्वं सिद्धं स्वत एव, न प्रमाणापेक्षम् । स्वतःसिद्धस्य
हि प्रमातुः अन्यस्य प्रमेयस्य परिच्छित्तिं प्रति प्रमाणापेक्षा ।
या तु अन्या नित्या परिच्छित्तिः अपेक्ष्यते, अन्यस्य अपरि-
च्छित्तिरूपस्य परिच्छेदाय, सा हि नित्यैव कूटस्था स्वयं-
ज्योतिःस्वभावा । आत्मनि प्रमाणत्वे प्रमातृत्वे वा न तां प्रति
प्रमाणापेक्षा, तत्स्वभावत्वात् । यथा प्रकाशनं उष्णत्वं वा
लोहोदकादिषु परतः अपेक्ष्यते अग्न्यादित्यादिभ्यः, अतत्स्व-
भावत्वात्, न अग्न्यादित्यादीनां तदपेक्षा, सर्वदा तत्स्वभाव-
त्वात् ॥ ९३ ॥
93. Teacher.—" No, you contradict yourself."
Disciple—" How is it a contradiction ? "
¹ See para 90 above. ² To the persistence of Pure Consciousness .