तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 186, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १६९
व्याप्तत्वासिद्धः कः किञ्चोपाधिस्वरूपम् ?—
सोपाधिको हेतुर्व्याप्यत्वासिद्धः । साध्यव्यापकत्वे सति
साधनाव्यापकत्वमुपाधिः । साध्यसमानाधिकरणात्यन्ताभावाप्रति-
पदकृत्यम्
द्वितीयो यथा—उद्भूतरूपादिचतुष्टयं गुणः रूपत्वादित्यत्र रूपत्वहेतोः
पक्षैकदेशवृत्तित्वेन तस्य भागे स्वरूपासिद्धत्वम् । तृतीयो यथा—वायुः
प्रत्यक्षः रूपवत्त्वे सति स्पर्शवत्त्वादित्यत्र रूपवत्त्वविशेषणस्य वायाव-
भावात्तद्विशिष्टस्पर्शवत्त्वस्यापि तथात्वेन तस्य स्वरूपासिद्धत्वं निर्वहति,
विशेषणाभावे विशिष्टस्याप्यभावात् । तुरीयो १यथा—अत्रैव विशेषण-
विशेष्यवैपरीत्येन हेतुः । तस्य स्वरूपासिद्धत्वं तु विशेष्याभावप्रयुक्त-
विशिष्टाभावादिति बोध्यम् ।
व्याप्यत्वासिद्धं निरूपयति—सोपाधिक इति । ननु कोऽयमुपाधिरत
आह—साध्येति । २साधनाव्यापक उपाधिरित्युक्ते शब्दोऽनित्यः कृतकत्वा-
दित्यत्र सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्रहणार्हत्वमप्युपाधिः स्यात्तदर्थं
साध्यव्यापकत्वमुक्तम् । ३तावत्युक्ते सामान्यवत्त्वादिनाऽनित्यत्वसाधने
कृतकत्वमुपाधिः स्यात्तदर्थं साधनाव्यापकत्वम् । ४उपाधिभेदमादायासम्भव-
हिन्दी
१. "वायुः प्रत्यक्षः स्पर्शवत्त्वे सति रूपवत्त्वात्" यहाँका हेतु विशेष्यासिद्ध नामक
चतुर्थ स्वरूपासिद्ध है । क्योंकि यहाँ रूपवत्त्वरूपविशेष्याभावप्रयुक्त विशिष्टाभाव है ।
२. उपाधिके लक्षणमें यदि केवल साधनाव्यापकत्व कहा जाय, साध्यव्यापकत्वका
निवेश न हो तो "शब्दोऽनित्यः कृतकत्वात्" इस सद्धेतुस्थलमें "सामान्यवत्त्वे सति
अस्मदादिबाह्येन्द्रियग्रहणविषयत्व" भी उपाधि हो जायगा । इसे वारण करनेके लिए
"साध्यव्यापकत्व" कहा । यहाँ अनित्यत्वरूपसाध्य अस्मदादिके ज्ञान-सुखादिमें है,
किन्तु उसमें हमारी बाह्येन्द्रियद्वारा ग्रहणकी विषयता नहीं है । अतः साध्यव्यापक
नहीं होनेसे इस सद्धेतुस्थलमें उक्त उपाधि नहीं होगा ।
३. यदि 'साधनाव्यापकत्व' पद न दिया जाय तो 'गमनादि कर्म अनित्यं सामान्य-
वत्त्वे सति बाह्येन्द्रियग्रहणार्हत्वात्" इस सद्धेतुक अनुमानमें भी कृतकत्व उपाधि होने
लगेगा । उक्त पद देनेपर दोष नहीं हुआ । क्योंकि कृतकत्व यद्यपि अनित्यत्वरूप
साध्यका व्यापक है, तथापि उक्त साधनका अव्यापक नहीं है किन्तु व्यापक ही है ।
४. उपाधिके अन्तर्गत व्यापकत्वके स्वरूपमें अत्यन्ताभाव न कहा जाय तो 'पर्वतो
धूमवान् वन्हेः' इत्यादिमें आर्द्रन्धनसंयोग आदि कोई भी उपाधि नहीं हो सकेगा, अर्थात्
सर्वत्र उपाधिलक्षणका असंभव हो जायगा । क्योंकि जहाँ जहाँ साध्य होगा वहाँ उपा-