सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 183, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 183

१६६ तर्कसंग्रहः [ अनुमानपरिच्छेदः
सपक्षस्य किं लक्षणम् ? —
निश्चितसाध्यवान् सपक्षः । यथा-तत्रैव महानसम् ।
विपक्षस्य किं लक्षणम् ? —
निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाह्रदः ।
हेत्वाभासाः कतिविधाः ? —
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ।
सव्यभिचारस्य लक्षणं किं, कतिविधश्च सः—
सव्यभिचारोऽनैकान्तिकः । स त्रिविधः—साधारणासाधार-
णानुपसंहारिभेदात् ।
पदकृत्यम्
निश्चितेति । पक्षेऽतिव्याप्तिवारणाय निश्चितेति । तत्रैवेति । धूमवत्त्व-
हेतावेवेत्यर्थः ।
निश्चितेति । सपक्षेऽतिव्याप्तिवारणाय साध्येति । पक्षेऽतिव्याप्तिवार-
णाय निश्चितेति । तत्रैव—धूमवत्त्व एव ।
हेतून्निरूप्य प्रसङ्गाद्धेत्वाभासानाह—सव्यभिचारेति । हेतुवदाभासन्ते
इति हेत्वाभासाः । १तत्त्वं चानुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञान-
विषयत्वम् । बाधस्थले 'वह्निरनुष्ण' इत्यनुमितिप्रतिबन्धकं यज्ज्ञानमुष्णत्व-
वद्वह्नावुष्णत्वसाधकं द्रव्यत्वमित्याकारकं, तद्विषयत्वस्य विषयतासम्बन्धेन
द्रव्यत्वरूपहेत्वाभासे सत्त्वाल्लक्षणसमन्वयः । सद्धेतुवारणाय यथार्थेति । घटा-
दिवारणाय अनुमितितत्करणान्यतरप्रतिबन्धकेति । व्यभिचारिणि अव्याप्ति-
वारणाय तत्करणान्यतरेति ।
हिन्दी
ही युक्त होकर साध्यकी सिद्धि करता है। क्योंकि सपक्ष नहीं होनेसे सपक्षसत्त्वका
अभाव रहेगा ।
१. अनुमिति और उसका करण व्याप्तिज्ञान इन दोनोंमें किसी एकका प्रतिबन्धक
जो यथार्थज्ञान, अर्थात् सव्यभिचारत्व, विरुद्धत्व, सत्प्रतिपक्षत्व, असिद्धत्व और बाधित-
त्वका यथार्थज्ञान, इसका जो विषय सव्यभिचार आदि, वे ही हेत्वाभास हैं । जैसे,
बाधस्थलमें “वह्निरनुष्णः” इस अनुमितिका प्रतिबन्धक ज्ञान होगा “उष्णे वह्नौ अनु-
ष्णत्वसाधकं द्रव्यत्वम्” इत्याकारक, उसकी विषयता द्रव्यत्वमें है । इसलिये द्रव्यत्व
हेतु नहीं है किन्तु हेत्वाभास है ।