तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 177, कुल 199 में से
संदर्भ में पढ़ेंअथानुमानपरिच्छेदः
अनुमानस्य किं लक्षणम् ? —
अनुमितिकरणमनुमानम् ।
अनुमितिः का ? —
परामर्शजन्यं ज्ञानमनुमितिः ।
परामर्शस्य किं स्वरूपम् ? —
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः यथा-वह्निव्याप्य-
धूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमानिति
ज्ञानमनुमितिः ।
व्याप्तिः का ? —
यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ।
पदकृत्यम्
प्रत्यक्षानुमानयोः कार्यकारणभावसङ्गतिसभिप्रेत्य प्रत्यक्षानन्तरमनुमानं
निरूपयति—अनुमितीति । अनुमितेः करणमनुमानमित्यर्थः । तच्च लिङ्ग-
परामर्श एवेति निवेदयिष्यते । कुठारादावतिव्याप्तिवारणाय अनुमितीति ।
प्रत्यक्षादावतिव्याप्तिवारणाय-अन्विति ।
नन्वनुमितेरेव दुर्निरूपत्वात्तद्घटितानुमानमपि दुर्निरूपमित्यत आह—
परामर्शति । प्रत्यक्षादावतिव्याप्तिवारणाय परामर्शजन्यमिति । परामर्श-
ध्वंसवारणाय ज्ञानमिति । ^१परामर्शप्रत्यक्षवारणाय हेत्वविषयकमित्यपि
बोध्यम् ।
व्याप्तिविशिष्टेति । विषयितासम्बन्धेन व्याप्तिविशिष्टं पक्षधर्मताज्ञानं
परामर्श इत्यर्थः । घटादिज्ञानवारणाय पक्षधर्मतेति । धूमवान्पर्वत इत्यादि-
ज्ञानवारणाय व्याप्तिविशिष्टेति । तदिति । परामर्शजन्यमित्यर्थः ।
यत्र यत्रेति । 'यत्र यत्र धूमस्तत्र तत्राग्निरि'ति व्याप्तेरभिनयः । तत्र साह-
चर्यनियम इति लक्षणम् । सहचरतीति सहचरस्तस्य भावः साहचर्यं सामाना-
धिकरण्यमिति यावत् । तस्य नियमो व्याप्तिरित्यर्थः । स चाव्यभिचरितत्वम् ।
हिन्दी
१. परामर्शका मानसप्रत्यक्ष भी परामर्शजन्य है, अतः उसमें अनुमितिलक्षणकी
अतिव्याप्तिका वारण करनेके लिये "हेत्वविषयक" ऐसा विशेषण लगाना चाहिये ।