तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 175, कुल 199 में से
संदर्भ में पढ़ें१५८ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः
समवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायो, विशे-
षणविशेष्यभावश्चेति ।
घट ( द्रव्य ) प्रत्यक्षे कः सन्निकर्षः ? —
चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ।
घटरूपप्रत्यक्षे क सन्निकर्षः ? --
घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः, चक्षुःसंयुक्ते घटे
रूपस्य समवायात् ।
रूपत्वादि-गुणगतजातिप्रत्यक्षे कः सन्निकर्षः ? --
रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः, चक्षुः-
संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् ।
शब्दप्रत्यक्षे कः सन्निकर्षः ?—
श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः, कर्णविवरवर्त्या-
काशस्य श्रोत्रत्वाच्छब्दस्याकाशगुणत्वाद् गुणगुणिनोश्च समवायात् ।
पदकृत्यम्
संयोगमुदाहरति चक्षुषेति । तथाच द्रव्यचाक्षुषत्वाचमानसेषु संयोग
एव सन्निकर्ष इति भावः ।
घटरूपेति । चक्षुषा इत्यनुषज्यते । तथा च द्रव्यसमवेतचाक्षुष त्वाच-
मानस-रासन-घ्राणजेषु संयुक्तसमवाय एव सन्निकर्ष इत्यर्थः :
रूपत्वेति । रूपत्वात्मकं यत्सामान्यं तत्प्रत्यक्ष इत्यर्थः । अत्रापि चक्षुषा
इत्यनुषज्यते । तथाच द्रव्यसमवेतसमवेतचाक्षुष-रासन-घ्राणज स्पार्शन-मान-
सेषु संयुक्तसमवेतसमवाय एव सन्निकर्ष इति भावः । 'अथ द्रव्यतत्समवेत-
प्रत्यक्षेऽपि संयुक्तसमवेतसमवाय एव सन्निकर्षोऽस्त्विति चेत्, नैतत्—
आत्मनोऽप्यनध्यक्षत्वप्रसङ्गात् ।
हिन्दी
१. “द्रव्यके प्रत्यक्षमें संयोग और द्रव्यसमवेत रूपादिके प्रत्यक्षमें संयुक्तसमवायको
सन्निकर्ष न मानकर संयुक्तसमवेतसमवायको ही सन्निकर्ष माना जाय । जैसे—
घटप्रत्यक्षस्थलमें चक्षुःसंयुक्तकपालिका, तत्समवेत कपाल, और उसमें समवाय घटका
है । ऐसे ही घटरूपके प्रत्यक्षस्थलमें चक्षुःसंयुक्त कपाल, तत्समवेत घट और उसमें
समवाय घटरूपका है ।” ऐसा नहीं कह सकते । क्योंकि निरवयव आत्माका मानस-
प्रत्यक्ष नहीं हो सकेगा । क्योंकि आत्मा मनसे सीधे संयुक्त है, न कि मनःसंयुक्तसम-
वेतसमवेत है ।