सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 167, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 167

१५० तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः
परत्वापरत्वयोः किं लक्षणं, के च भेदाः ?—
परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादि-
चतुष्टयमनोवृत्तिनी । ते च द्विविधे-दिक्कृते कालकृते चेति ।
दूरस्थे दिक्कृतं परत्वं, कनिष्ठे कालकृतमपरत्वम् । ज्येष्ठे कालकृतं
परत्वं, कनिष्ठे कालकृतमपरत्वम् ।
गुरुत्वस्य किं लक्षणम् ?—
आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति ।
द्रवत्वस्य किं लक्षणं, के च भेदाः ?—
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् पृथिव्यप्तेजोवृत्ति ।
तद्द्विविधम्-सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले । नैमित्तिकं
पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वं, तेजसि
सुवर्णादौ ।
स्नेहस्य किं लक्षणम्, कुत्र च स. ?—
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः ।
पदकृत्यम्
परेति । परव्यवहारासाधारणं कारणं परत्वम् । अपरव्यवहारासाधारणं
कारणमपरत्वमित्यर्थः । दण्डादिवारणाय परव्यवहारेति । कालादिवारणा-
यासाधारणेति । परव्यवहारत्ववारणाय कारणेति । एवमेव द्वितीयेऽपि
बोध्यम् ।
आद्येति । दण्डादिवारणायासमवायीति । १रूपादिवारणाय पतनेति ।
२वेगेऽतिव्याप्तिवारणायाद्येति ।
आद्यस्यन्दनेति । दण्डादिवारणायासमवायीति । रसादिवारणाय
स्यन्दनेति ।
चूर्णादीति । चूर्ण = पिष्टं, तदेवादिर्यस्य मृत्तिकादेः, स चूर्णादिस्तस्य
पिण्डीभावः संयोगविशेषस्तस्य हेतुर्निमित्तकारणं स्नेह इत्यर्थः । कालादाव-
तिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय पिण्डीभावेति ।
चूर्णपदं स्पष्टार्थम् ।
हिन्दी
१. अवयविगत आद्य रूपादिको असमवायिकारण अवयवगतरूपादि भी होता है,
अतः रूपादिमें गुरुत्वलक्षणके अतिव्याप्तिवारणके लिये पतनपद दिया ।
२. द्वितीयादिपतनका कारण वेग होता है, अतः उसमें अतिव्याप्तिवारणार्थ
आद्यपद दिया ।