तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 156, कुल 199 में से
संदर्भ में पढ़ेंश्रीगणेशाय नमः
तर्कसंग्रहः
हिन्दीव्याख्योपेत-पदकृत्य-सहितः
प्रत्यक्षपरिच्छेदः
৲—❖—৴
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।
बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥
पदकृत्यम्
श्रीगणेशं नमस्कृत्य पार्वतीशङ्करं परम् ।
मया चन्द्रजसिंहेन क्रियते पदकृत्यकम् ॥ १ ॥
यस्मादिदमहं मन्ये बालानामुपकारकम् ।
तस्माद्धितकरं वाक्यं वक्तव्यं विदुषा सदा ॥ २ ॥
विश्वेशं जगत्कर्तारं श्रीसाम्बमूर्तिं हृदि मनसि निधाय नितरां धार-
यित्वा, गुरुवन्दनं च विधाय कृत्वेत्यर्थः । बालेति । 'अत्राधीतव्याकरण-
काव्यकोशोऽनधीतन्यायशास्त्रो बालः । व्यासादावतिव्याप्तिवारणायाऽन-
धीतन्यायेति । स्तनन्धयेऽतिप्रसक्तिवारणायाऽधीतव्याकरणेति । सुखेति ।
हिन्दी
भवं भवानीं वाग्देवीं न्यायाचार्यांश्च भूरिशः ।
प्रणम्य पदकृत्यस्य टिप्पणीं भाषयाऽऽरभे ॥
१. मङ्गलश्लोकमें बालशब्दसे वयकी दृष्टिसे बालक अर्थ अभिप्रेत नहीं है, किन्तु
जिसने व्याकरण काव्य और कोशका अध्ययन किया है तथा न्याय-शास्त्रका अध्ययन
नहीं किया है, वही यहाँ बाल है । व्याकरणादिके ज्ञाता व्यास आदिमें इस बाल-
लक्षणकी अतिव्याप्ति न हो जाय, इसलिए 'अनधीतन्याय" यह पद दिया गया ।
माताका स्तनपान करनेवाले शिशुमें इस लक्षणकी अतिव्याप्ति न हो, इसके लिए
"अधीतव्याकरण" इत्यादि पद दिये गये ।