सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 154, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 154

सत्त्वात् मुखे चन्द्रसादृश्यमस्तीति । तथा चात्र सादृश्यमाह्लादकत्वम् । आह्ला-
दश्च सुखविशेषः । तज्जनकत्वमाह्लादकत्वम् । जनकत्वञ्चाव्यवहितप्राक्क्षणा-
वच्छेदेन वृत्तित्वम् । वृत्तित्वस्य च स्वरूपसम्बन्धात्मकतया मुखाद्यात्मकत्वमेवेति ।
क्वचिच्च सादृश्यं गवाद्यात्मकमेवेति तस्य नातिरिक्तपदार्थत्वमिति भावः ।
ग्रन्थान्तोक्तस्य काणादन्यायमतयोरिति श्लोकस्यान्यवबोधमाह - काणा-
दन्यायाभिन्नेति । काणादन्यायाभिन्नं यन्मतद्वयं तद्विषयिणी या बालसम-
वेताऽभिन्ना व्युत्पत्तिः, तादृशव्युत्पत्तिप्रयोजिका या अन्नम्भट्टविद्वन्निष्ठा भूतकालिकी
कृतिः, तादृशकृतिविषयाभिन्नः तर्कसंग्रहाख्यो ग्रन्थ इत्यर्थः ।
न्या.बो. हे कृष्ण ! सच्चिदानन्दघन परमात्मन् ! (तव) लम्बनः त्वदाधाराः गाः-
पृ.८१. मम सान्तःकरणानि इन्द्रियाणि अव = पाहि सदा तव चरणारविन्दलग्नानि
कुरु इति धिया, पूषा इव पूषा अर्थात् भगवान् भास्कर इव जगति सकलार्थ-
प्रकाशकः न्यायशास्त्रव्याख्यानेन सर्वव्युत्पित्सुभ्यः सकलपदार्थसार्थप्रबोधको
गोवर्धनस्तं परमात्मानमभ्यर्चन् अस्ति । काभिः सामग्रीभिरभ्यर्चनां करोतीत्याह-
विपुलाभीरसभाजनेत्यादि । रसानां भाजनेन सर्वरसशिरोमणिना भक्ति-
रसेन (पूरिततया) जिताः विबुधेन्द्राणामपि महापण्डितानामपि स्तवाः याभि-
स्तादृशीभिः विपुलाभिरभिरचनाभिः वाग्विलासैरभ्यर्चन्नस्तीति भावः ।
इति न्यायवेदान्तसांख्ययोगाचार्य श्रीकेदारनाथत्रिपाठिप्रणीतायां
तर्कसङ्ग्रहन्यायबोधिनीव्याख्यानां कलायाम्
अवशिष्टपरिच्छेदः समाप्तः ।
सारण्यमण्डले पुण्ये ग्रामे विष्णुपुराभिधे ।
जंनिस्त्रिपाठिनो लब्ध्वा रामादेयो विहारिणः ॥
न्यायव्याकरणे श्रीमत्सूर्यनारायणाद् गुरोः ।
वेदान्तं विश्रुताच्छ्रीमद्धरिहरकृपालुतः—
श्रुत्वा वादविदग्रणीः स विदितः केदारनाथः कृती,
मोहान्तप्रवर गिरिं हरिहरं संश्रित्य सर्वात्मना ।
अङ्गाङ्गाङ्कविधौ व्यधत्त विशदां व्याख्यां कलानामिकाम् ।
नव्यन्यायनयप्रवेशमनसां शीघ्रावबोधप्रदाम् ॥
—:०:—