सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 125, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 125

ग्रेण सम्बन्धः । तत्सम्बन्धावच्छिन्ना-स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नेत्यर्थः ।
समन्वयप्रकारं स्वयं प्रदर्शयति — अवयवगुणकपालतन्तुरूपादेरिति ।
न्या.बो. निमित्तकारणलक्षण स्पष्टयितुमाह—निमित्तकारणं लक्षयतीति ।
पृ.३१. लक्षणन्तु टीकायामेवोक्तम् ।
त्रिविधकारणलक्षणानि व्याख्यातानि, सम्प्रत्युपसंहृतं करणलक्षणं व्याख्या-
तुमाह—तदेतदितीति । त्रिविधकारणमध्ये यदसाधारणं कारणं तत् करणमिति
लक्षणम् ।
नन्वेवस्य लक्षणस्य कपालद्वयसंयोगे तन्तुसंयोगे चातिव्याप्तिः । पूर्वोक्तस्य
कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता निरूपित कारणताशालित्वस्यैवासाधारणलक्षण-
त्वात् । प्रकृते कार्यत्वानतिरिक्तघटत्वपटत्वधर्मावच्छिन्नकार्यता निरूपितकारणता-
शालित्वस्य कपालसंयोगे तन्तुसंयोगे च मत्त्वादिति चेदत्राह — व्यापारवत्त्वे
सतीति । तथा चोक्तासाधारणकारणत्वस्य तादृशसंयोगे सत्त्वेऽपि तस्य व्यापार-
वत्त्वाभावान्नातिव्याप्तिः । दण्डादौ तु असाधारणत्वं व्यापारवत्त्वञ्चास्तीति
घटादिकं प्रति दण्डादेः करणत्वं सुपपन्नम् । अक्षरार्थन्तु व्याख्ययैव गतार्थः ।
ननु व्यापारवत्त्वे सतीति करणलक्षणे विशेषितं, तत्र व्यापारत्वमेव किमित्याह—
व्यापारत्वञ्चेति । तज्जन्यत्वे सति तज्जन्यजनकत्वमिति व्यापारलक्षणम् । अत्र
तत्पदेन करणत्वेनाभिप्रेतो दण्डादिर्गृह्यते । भ्रमिभ्रमणम् । स हि दण्डाज्जन्यो
भवति, अथ च दण्डजन्यो यो घटस्तस्य जनकोऽपि भवति, तस्मात् भ्रम्यादिर्व्या-
पारः कथ्यते । तद्वत्त्वाच्च दण्डः करणं भवति । एवं कपालसंयोगतन्तुसंयोगादि-
रपि क्रमेण कपालतन्त्वोः व्यापारो भवति । कपालसंयोगस्य कपालजन्यत्वे मति
कपालजन्यस्य घटस्य जनकत्वात्, एवं तन्तुसंयोगस्य तन्तुजन्यत्वे मति तन्तु-
जन्यस्य पटस्य जनकत्वात् । एतदेवाह—भवति हीत्यादिना घटपटजनकत्वा-
न्या.बो. दित्यन्तेन । असाधारणत्वविशेषणस्य फलमाह — करणलक्षणे इति । ईश्वरा-
पृ.३२. दृष्टादेरपि व्यापारवत्कारणत्वात् करणत्वं स्यादतः कार्यत्वातिरिक्तधर्मावच्छिन्न-
कार्यतानिरूपितकारणत्वरूपमसाधारणत्वं विशेषितम् ईश्वरादेस्तु कार्यत्वसा-
मान्यावच्छिन्नं प्रति कारणत्वादिति भावः ।
चक्षूरसनात्वग्घ्राणश्रोत्रमनांसि षडिन्द्रियाण्येव प्रत्यक्षप्रमाणपदेनोच्यन्ते ।
तल्लक्षणं प्रत्यक्षज्ञानकरणत्वं मूलकारेणोक्तम्, तदेव व्याख्यातुमाह-षड्विधेति ।
प्रमाभूतेषु प्रत्यक्षादिषु, — इत्यादिपदेन अनुमित्युपमितिशाब्दाः पूर्वोक्ता गृह्यन्ते ।
तत्र प्रत्यक्षात्मकं यज्ज्ञानं चाक्षुष, रासन, घ्राणज, स्पर्शन, श्रावण, मानसप्रत्यक्षं,
तत् प्रति असाधारणकारणत्वात् इन्द्रियसन्निकर्षरूपव्यापारवत्त्वाच्चेन्द्रियाण्येव
करणानि भवन्तीति तेषां प्रत्यक्षप्रमाणत्व सिद्धम् । पर्यवसितमाह—अत इति ।