तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 115, कुल 199 में से
संदर्भ में पढ़ें९८ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः
यस्मिन् स्थाने उद्बोधकसमवधाने सति तेन पुरुषेण साकमिन्द्रियसन्निकर्षाभावेऽपि
तस्य ज्ञानं जायते, तदेव स्मृतिः । तत्र संस्कार एव कारणं भवतीति सुतरां लक्षणं
समन्वेति ।
लक्षणे विशेषणकृत्यमाह — विशेषणानुपादाने इति । बहिरिन्द्रियाद्य-
जन्यत्वविशिष्टसंस्कारजन्यत्वार्थकं 'संस्कारमात्रजन्येति' पदानुपादाने इत्यर्थः ।
प्रत्यक्षानुभवेऽतिव्याप्तिरिति । तस्यापि ज्ञानत्वादिति शेषः । तद्वारणाय
विशेषणोपादानमिति । तथा च प्रत्यक्षानुभवस्य बहिरिन्द्रियजन्यत्वेन संस्कार-
मात्रजन्यत्वाभावान्नातिव्याप्तिरिति भावः ।
विशेष्यस्य फलमाह — संस्कारेति । अयं भावः — संस्कारमात्र-
जन्यत्वमात्रं लक्षणं स्यात् ज्ञानत्वञ्च नोपादीयेत तदा संस्कार-
ध्वंसस्यापि संस्कारजन्यत्वेन तत्र स्मृतिलक्षणातिव्याप्तिः । ज्ञानत्वोपादाने
तु ध्वंसस्याभावत्वान्नातिव्याप्तिः । ननु कथं संस्कारध्वंसः संस्कारजन्यस्तत्राह —
ध्वंसं प्रतीति । अयमाशयः —यस्याभावः स प्रतियोगी । ध्वंसोऽपि अभाव
एवेति संस्कारध्वंसस्य संस्कारः प्रतियोगी । एवं घटध्वंसं प्रति घटः प्रतियोगी
भवतीत्यनयैव रीत्या अन्यत्रापि बोध्यम् । एवं यदि पूर्वं संस्कार एव न स्यात्तदा
कस्य ध्वंसः स्यात् । यथा पूर्वं यदि घटो न स्यात्तदा दण्डेन कस्य ध्वंसो भवेत् ।
तस्मादेतन्मन्तव्यं यत् ध्वंसं प्रति प्रतियोगी कारणं भवतीति । तथा च संस्कार-
ध्वंसेऽपि संस्कारजन्यत्वसिद्धौ तत्रातिव्याप्तिवारणाय ज्ञानत्वोपादानमावश्यक-
मिति । यदा कश्चित् पुरुषः पूर्वमन्यत्र दृष्टः पुनरन्यत्र दृश्यते, तत्र 'सोऽयमिति'
यज्ज्ञानं भवति, तदेव प्रत्यभिज्ञापदार्थः । तत्रातिव्याप्तिवारणाय मात्रपदम् ।
तथा सति नातिव्याप्तिः, तत्र प्रत्यभिज्ञायां तत्तांशे संस्कारजन्यत्वस्य सत्त्वेऽपि
इदन्त्वांशे बहिरिन्द्रियजन्यत्वेन संस्कारमात्रजन्यत्वाभावात् ।
अनुभवलक्षणं व्याख्यातुमाह — अनुभवं लक्षयतीति । मूलस्थतद्द्भिन्नमित्य-
स्यार्थमाह — तद्भिन्नत्वं नामेति । लक्षण य पर्यवसितं रूपमाह — तथा
चेति । स्मृतिभिन्नत्वविशेषणस्य फलमाह तत्रेति । स्मृतावतिव्याप्तिरिति ।
तस्या अपि ज्ञानत्वादिति शेषः । विशेष्योपादानफलमाह — विशेष्यानुपादाने
इति । घटादावतिव्याप्तिरिति । घटादेरपि स्मृतिभिन्नत्वादिति शेषः ।
घटस्य स्मृतिभिन्नत्वेऽपि ज्ञानत्वाभावान्नातिव्याप्तिरित्याशयः ।
न्या.बो. यथार्थानुभवलक्षणं व्याख्यातुमाह — यथार्थानुभवमिति । तद्वति तत्प्रकार-
पृ.१२.कानुभवत्वं यथार्थानुभवस्य लक्षणम् । तद्वतीत्यत्र तच्छब्दार्थमाह तद्वती-
त्यत्रेति । लक्षणस्य स्वयं स्वरूपमाह — तथाचेति ।