सामग्री पर जाएँ
सर्वकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 113, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 113

९६ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः
इत्याह— एवं दुग्धाम्भकैरिति । एवं रीत्यैव नवनीतादिकमपीत्याह— एवं
पाकमहिम्नेति ।
न्या.बो. विभागलक्षणं व्याख्यातुमाह— विभागं लक्षयतीति । निष्कृष्टलक्षणमाह—
पृ.१७.संयोगेति । अत्र लक्षणे संयोगनाशकत्वं विशेषणम्, गुणत्वं विशेष्यम् । विशेषणा-
नुपादाने गुणत्वमात्रोक्तौ रसादावतिव्याप्तिः, तद्वारणाय विशेषणोपादानम् ।
विशेष्यस्य स्वयं फलमाह— विशेषणमात्रोपादाने इति । यदि संयोगनाशकत्वं
विभागत्वमित्युच्येत, तदा क्रियापि संयोगनाशिकाऽस्ति, नहि क्रियामन्तरा
संयोगो नश्यति । तथा च क्रियायां विभागलक्षणातिव्याप्तिरतो गुणत्वमिति
विशेष्योपादानम् । क्रियाया गुणभिन्नत्वात् नातिव्याप्तिरित्याशयः ।
न्या.बो. गुरुत्वलक्षणव्याख्यानायाह— गुरुत्वं लक्षयतीति । आद्यपतनासमवायि-
पृ.१८.कारणत्वं गुरुत्वस्य लक्षणम् । समवायिकारणत्वासमवायिकारणत्वे त्वग्रे विस्तरेण
प्रतिपादयिष्येते । अत्रैतावदेव ज्ञेयं यत् आद्यपतनं प्रति असमवायिकारणं गुरुत्वं,
द्वितीयपतनं प्रति तु वेगोऽसमवायिकारणम् । अयं भावः— यदा लोष्ठमुपरि
उत्क्षिप्यते तदा तल्लोष्ठं निमेषमात्रमाकाशे एवावस्थाय शनैः पतितुमारभते,
तत्रैवारम्भिकपतने गुरुत्वमसमवायिकारणम् । यदि गुरुत्वं न स्यात्तदा लोष्ठं
नभस्येवावरुद्धं स्यात्, न त्ववपतेत् । अतस्तत्र गुरुत्वमसमवायिकारणम्, किन्तु
प्रारम्भिकपतनानन्तरम् शीघ्रतया यत् पतनं दृश्यते तत्र वेग एवासमवायिकारण-
मित्यर्थं । तथा चाद्यपदादाने द्वितीयपतनासमवायिकारणे वेगेऽतिव्याप्तिरत
आद्येति । तदेवाह— द्वितीयेति । उत्तरत्र द्रवत्वलक्षणे मूलकारेणाद्यपदं न
दत्तम्, किन्तु वेगेऽतिव्याप्तिवारणाय तत्राप्याद्यपदमावश्यकमित्याह—उत्तरत्रेति ।
तथा चाद्यपदयोजनया आद्यस्यन्दनासमवायिकारणत्वं द्रवत्वस्य लक्षणं निष्पन्नं
भवति ।
न्या.बो. स्नेहं लक्षणं व्याख्यातुं प्रक्रमते— स्नेहं लक्षयतीति । लक्षणस्य निष्कर्ष-
पृ. १८. माह— चूर्णादीति । चूर्णशब्दस्य स्फुटार्थत्वात् पिण्डीभावशब्दार्थमाह— पिण्डी-
भावो नामेति चूर्णादिर्धारणाकर्षणहेतुभूत इति । यतश्चूर्णा।दधार्यन्ते,
आकृष्यते वा, स विलक्षणः संयोग एव पिण्डीभावः । ननु तादृशविलक्षणसंयोगात्मके
पिण्डीभावे स्नेह एव हेतुः सिद्धान्तिना भवताऽभ्युपगम्यते, परन्तु जलादिगत-
द्रवत्वमेव कारणं किं न स्यात् ? तथा चोक्तलक्षणं न युक्तमत आह— तादृश-
संयोग इति । न तु जलादिगतद्रवत्वस्येति । अत्र युक्तिमाह-- तथा सतीति ।
तीव्राग्निसंयोगेन द्रुतं यत् सुवर्णं तत्संयोगेनापि सक्तूनां धूलीनां वा पिण्डीभावः
स्यात्, किन्तु नैवं भव।त । उपसंहरति— अत इति ।
लक्षणे गुणपदोपादानफलमाह— विशेषणेति । कालस्य जन्यमात्रं प्रति
हेतुत्वेन पिण्डीभावं प्रत्यपि हेतुत्वादिति भावः । अक्षरार्थः स्पष्टः । चूर्णादिपिण्डी-