सामग्री पर जाएँ
सर्वकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 95, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 95

१४ ] तन्त्रसार-अभिनवगुप्त [ आ. ३
मायायां पुनः स्फुटीभूतभेदविभागा मायोयवर्णतां भजन्ते, ये पश्यन्तीम-
ध्यमावैखरीषु व्यावहारिकत्वम् आसाद्य बहिरूपतत्स्वभावतापत्तिप-
र्यन्ताः ते च मायीया अपि शरीरकल्पत्वेन यदा दृश्यन्ते, यदा च तेषाम्
उक्तनयैरैतैः जीवितस्थानीयैः शुद्धैः परामर्शैः प्रत्युज्जीवनं क्रियते तदा
ते सबीर्या भवन्ति, ते च तादृशा भोगमोक्षप्रदाः, इत्येवं सकलपरामर्श-
विश्रान्तिमात्ररूपं प्रतिबिम्बितसमस्ततत्त्वभूतभुवनभेदम् आत्मानं पश्यता
निर्विकल्पतया शांभवेन समावेशेन जीवन्मुक्तता। अत्रावि पूर्ववत् न
मन्त्रादियन्त्रणा काचिदिति ।
अन्तर्विभाति सकलं जगदात्मनीह
यद्वद्विचित्ररचना मुकुरान्तराले ।
बोधः परं निजविमर्शरसानुवृत्त्या
विश्वं परामृशति नो मुकुरस्तथा तु ॥
संवेअण निम्मल दप्पणम्मि सअलं फुरत्त निअसारं ।
आमरिसण रस सरहस विमट्ठरुअं सइं भाई ॥
इअ सुणअ विमलमेणं निअ अप्पाणं समत्थवत्थमअम् ।
जो जोअय सो परभेरइ बोव्व परिणव्वइं लहइ ॥
इति श्रीमदभिनवगुप्ताचार्य विरचिते तन्त्रसारे शाम्भवोपाय
प्रकाशनं नाम तृतीयमाह्निकम् ॥३॥