सामग्री पर जाएँ
सर्वकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 211, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 211

१३० ] तन्त्रसार-अभिनवगुप्त [ आ. १३
प्रकर्षेण लीनत्वात् बोधात् प्राधान्येन वेद्यात्मकदेहक्षात् नादामर्शात्मक-
त्वाच्च, इति । तन्नाभ्युत्थितं तन्मूर्धस्थशत्रपनिर्गतं नादान्तर्गतशक्ति-
व्यापिनीसमनारूपमशत्रयं द्विषट्कान्तं, तदुपरि शुद्धपद्मस्थाद् औन्मनसम्
एतस्मिन् विश्वमये भेदे आसनीकृते अधिष्ठातृतया व्यापकभावेन आधेय-
भूतां देवतां कल्पयित्वा यत् तत्रैव समस्तभावनिर्भर आत्मनि विश्वभावार्पणं
तदेव पूजनं, यदेव तन्मयीभवनं तद्ध्यानं, यत् तथाविधान्तःपरामर्शक्रम-
प्रबुद्धमहातेजसा तथाबलादेव विश्वात्मीकरणं स होमः, तदेवं कृत्वा
परिवारं तत एव वह्निरराशिविस्फुलिङ्गवत् ध्यात्वा तथैव पूजयेत् ।
द्वादशान्तमिदं प्राप्यं त्रिशूलं मूलतः स्मरन् ।
देवीचक्राप्रपं त्यक्तक्रमः खचरतां व्रजेत् ॥
मूलाधाराद्विषट्कान्तव्योमाग्रापूरणात्मिका ।
खेचरीयं खसंचारस्थितिभ्यां चामृताशनात् ॥
एवम् अन्तर्यागमात्रादेव वस्तुतः कृतकृत्यता । सत्यतः तदाविष्टस्य
तथापि बहिरपि कार्यो यागोऽवच्छेदहानय एव, योऽपि तथा समावेश-
भाक् न भवति तस्य मुख्यो बहिर्यागः, तदभ्यासात् समावेशलाभो—यत-
स्तस्यापि तु पशुतातिरोधानायान्तर्यागः—तदरूढावपि तत्संकल्पबलस्य
शुद्धिप्रदत्वात् । अथ यदा दीक्षां चिकीर्षेत् तदाधिवासनार्थं भूमिपरिग्रहं,
गणेशार्चनं, कुम्भकलशयोः पूजां, स्थण्डिलार्चनं, हवनं च कुर्यात् ।
नित्यनैमित्तिकयोस्तु स्थण्डिलाद्यर्चनहवने एव । तत्र अधिवासनं शिष्यस्य
संस्कृतयोग्यताधानम् अम्लीकरणमिव दन्तानां देवस्य कर्तव्योन्मुखत्व-
ग्रहणम्, गुरोस्तद्ग्रहणम् । उपकरणद्रव्याणां यागगृहान्तर्वर्तितया
परमेशतेजोबृंहणेन पूजोपकरणयोग्यतार्पणमिति । तत्र सर्वोपकरणपूर्णं
यागगृहं विधाय भगवतीं मालिनीं मातृकां वा स्मृत्वा तद्रणतेजःपुञ्जभरितं
गृहीतं भावयन् पुष्पाञ्जलिं क्षिपेत् । तत उक्तास्त्रपात्राणि यथासंभवं
सिद्धार्थधान्याक्षतलाजादीनि तेजोरूपाणि विकीर्य ऐशान्यां दिशि क्रमेण
संघट्टयेत्, इति भूपरिग्रहः । ततः शुद्धविद्यान्तमासनं दत्त्वा गणपतेः
पूजा, ततः कुम्भम् आनन्दद्रव्यपूरितम् अलंकृतं पूजयेत्, ततो याज्यमनु
पूगं न्यस्य तत्र मुख्यं मन्त्रं सर्वाधिष्ठातृतया विधिपूर्वकत्वेन स्मरन् अष्टो-
त्तरशतमन्त्रितं तेन तं कुम्भं कुर्यात् । द्वितीयकलशे विघ्नशमनाय अस्त्रं
यजेत् । ततः स्वस्वदिक्षु लोकपालान् सास्त्रान् पूजयेत् । ततः शिष्यस्य