सामग्री पर जाएँ
सर्वकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 175, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 175

द्वैकन्यग्भावाभ्यां चतुर्दशत्वम् इति प्रमातृतापन्नस्य धरातत्त्वस्थ भेदाः,
स्वरूपं तु शुद्धं प्रमेयम् इति, एवम् अपरत्रापि । अथ एकस्मिन् प्रमातरि
प्राणप्रतिष्ठिततया भेदनिरूपणम्—इह नीलं गृह्णतः प्राणः त्रुटिषोडशकात्मा
वेद्यावेशपर्यन्तम् उदेति, तत्र आद्या त्रुटिरविभागरूपा, द्वितीया ग्राह-
कोल्लासरूपा, अन्त्या तु ग्राह्याभिन्ना तन्मयी, उपान्त्या तु स्फुटीभूत-
ग्राहकरूपा, मध्ये तु यत् त्रुटिद्वादशकं तन्मध्यात् आद्यं षट्कं निर्विकल्प-
स्वभावं विकल्पाच्छादकं, षट्त्वं च अस्य स्वरूपेण एका त्रुटिः, आच्छाद-
नीये च विकल्पे पञ्चरूपत्वम्, उन्मिमिषा उन्मिषत्ता, सा च इयं स्फुट-
क्रियारूपत्वात् त्रुटिद्वयात्मिका-स्पन्दनस्य एकक्षणरूपत्वाभावात्, उन्मि-
षितता स्वकार्यकर्तृत्वं च इत्येवमाच्छादनीयविकल्पपाञ्चविध्यात् स्वरू-
पाच्च षट् क्षणा निर्विकल्पकाः, ततोऽपि निर्विकल्पस्य ध्वंसमानता,
ध्वंसो विकल्पस्य, उन्मिमिषा उन्मिषत्ता त्रुटिद्वयात्मिका उन्मिषितता च
इति षट् त्रुटयः। स्वकार्यकर्तृता तु ग्राहकरूपता इति उक्तं न सा भूयो
गण्यते, इत्येवं विवेकधना गुरूपदेशानुशोलिनः सर्वत्र पाञ्चदश्यं प्रविभागेन
विविञ्चते । विकल्प न्यूनत्वे तु त्रुटिन्यूनता सुखादिसंवित्ताविव यावत्
अविकल्पतैव । लोकास्तु विकल्पविश्रान्तया ताम् अहन्तामयीम् अहन्ता-
च्छादितेदंभावविकल्पप्रसरा निर्विकल्पां विमर्शभुवम् अप्रकाशितामिव
मन्यन्ते—दुःखावस्थां सुखविश्रान्ता इव, विकल्पनिर्ह्लासेन तु सा प्रकाशत
एव इति इयम् असौ संबन्धे ग्राह्यग्राहकयोः सावधानता इति अभिनव-
गुप्तगुरवः । एवं च पाञ्चदश्ये स्थिते यावत् स्फुटेदन्तात्मनो भेदस्य न्यूनता
तावत् द्वयं द्वयं ह्रसति यावत् द्वितुटिकः शिवावेशः, तत्र आद्या त्रुटिः
सर्वतः पूर्णा, द्वितीया सर्वज्ञानकरणाविष्टाभ्यस्यमाना सर्वज्ञत्वसर्वकर्तृ-
त्वाय कल्पते न तु आद्या। यदाह श्रीकल्लटः 'त्रुटिपात इति' अत्र पात-
शब्दं सैव भगवती श्रीमत्काली मातृसद्भावो भैरवः प्रतिभा इत्यलं
रहस्यरहस्येनेन । एवं मन्त्रमहेशत्रुटेः प्रभृति तत्तद्रूपासनात् तत्तत्सिद्धिः ।
अथात्रैव जाग्रदवस्था निरूप्यते, —तत्र वेद्यस्य तद्विषयायाश्च संविदो
यत् वैचित्र्यम् अन्योन्यापेक्षं सत् सा अवस्था, न वेद्यस्य केवलस्य न चापि
केवलायाः संविदो न चापि पृथक् पृथक् द्वे । तत्र यदाधिष्ठेयतया बही-
रूपतया भानं तदा जाग्रदवस्था मेये मातरि माने च। यदा तु तत्रैव
अधिष्ठानरूपतया भानं संकल्पः तदा स्वप्नावस्था । यदा तु तत्रैव अधि-
ष्ठातृरूपतया बीजात्मतयैव भानं तदा सुषुप्तावस्था। इमा एव तिस्रः
प्रमेयप्रमाणप्रमात्रवस्थाः प्रत्येकं जाग्रदादिभेदात् चतुर्विधा उक्ताः। यदा