तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 157, कुल 294 में से
संदर्भ में पढ़ें७६ ] तन्त्रसार-अभिनवगुप्त [ आ. ८
प्रत्यात्म कलादिवर्गो भिन्नः—तत्कार्यस्य कर्तृत्वोपोद्वलनादेः प्रत्यात्मभेदेन
उपलम्भात्, स तु वर्गः कदाचित् एकीभवेत् अपि ईश्वरेच्छया सामा-
जिकात्मनामिव, तत्र सर्वोऽयं कलादिवर्गः शुद्धः यः परमेश्वरविषयतया
तत्स्वरूपलाभानुगुणनिजकार्यकारी—संसारप्रतिद्वन्द्वित्वात् । स च पर-
मेश्वरशक्तिपातवशात् तथा भवति इति वक्ष्यामस्तत्प्रकाशने । अशुद्धस्तु
तद्विपरीतः । तत्र मायातः कला जाता, या सुप्तस्थानीयम् अणुं किञ्चित्क-
र्तृत्वेन युनक्ति, सा च उच्छूनतेव संसारबीजस्य, मायाण्वोरुभयोः
संयोगात् उत्पन्नापि मायां विकरोति, न अविकार्यमणुम्—इति
मायाकार्यत्वम् अस्याः । एवं अन्योन्यश्लेषात् अलक्षणीयान्तरत्वं
पुस्कलयोः । मायागर्भाधिकारिणस्तु कस्यचिदीश्वरस्य प्रसादात्
सर्वकर्मक्षये मायापुरुषविवेकोभवति, येन मायोर्ध्वं विज्ञानकल आस्ते,
न जातुचित् मायाधः, कलापुंविवेको वा येन कलोर्ध्वं तिष्ठति ।
प्रकृतिपुरुषविवेको वा येन प्रधानाधो न संसरेत् । मलपुरुषविवेके
तु शिवसमानत्वं । पुरुषपूर्णतादृष्टौ तु शिवत्वमेवेति । एवं कला-
तत्त्वमेव किंचित्कर्तृत्वदायि, न च कर्तृत्वम् अज्ञस्य इति । किंचिज्ज्ञत्व-
दायिन्यशुद्धविद्या कलातो जाता, सा च विद्या बुद्धिं पश्यति तद्-
गतांश्च सुखादीन् विवेकेन गृह्णाति । बुद्धेर्गुणसंकीर्णाकाराया विवेकेन
ग्रहीतुमसामर्थ्यात् । तस्मात् बुद्धिप्रतिबिम्बितो भावो विद्यया विविच्यते
किंचित्कर्तृत्वं किंचिद्रागसिद्धये क्वचिदेव कर्तृत्वम् इत्यत्र अर्थे पर्य-
वस्यति, क्वचिदेव च इत्यत्र भागे रागत्तत्त्वस्य व्यापारः । न च अवै-
राग्यकृतं तत्—अवैराग्यस्यापि अरक्तिदर्शनात् । वैराग्ये धर्मादावपि
रक्तिर्दृश्यते । तृप्तस्य च अन्नादौ—अवैराग्याभावेऽपि अन्तःस्थरागान-
पायात् । तेन विना पुनरवैराग्यानुत्पत्तिप्रसङ्गात् । कालश्च कार्यं
कलयंस्तदवच्छिन्नं कर्तृत्वमपि कलयति, तुल्ये क्वचित्त्वे अस्मिन्नेव
कर्तृत्वम् इत्यत्रार्थे नियतेर्व्यापारः । कार्यकारणभावेऽपि अस्या एव
व्यापारः किंचिदधुना जानन् अभिष्वक्तः करोमि इत्येवंरूपा संविद्
देहपुर्यष्टकादिगता पशुरित्युच्यते । तदिदं मायादिषट्कं कञ्चुकषट्कम्
उच्यते । संविदो मायया अपहस्तितत्वेन कलादीनाम् उपरिपातिनां
कञ्चुकवत् अवस्थानात् । एवं किंचित्कर्तृत्वं यत् मायाकार्यं, तत्र
किंचित्त्वविशिष्टं यत् कर्तृत्वं विशेष्यं, तत्र व्याप्रीयमाणा कला विद्या-
दिप्रसवहेतुः, इति निरूपितम् । इदानीं विशेषणभागो यः किंचिदित्युक्तो
ज्ञेयः कार्यश्च तं यावत् सा कला स्वात्मनः पृथक् कुरुते तावत् एष एव