तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 155, कुल 294 में से
संदर्भ में पढ़ेंअथ अष्टममाह्निकम्
अथ तत्त्वाध्वा निरूप्यते
यदिदं विश्वात्मकं भुवन-व्रातमुक्तं गर्भीकृतानन्तविचित्रभोक्तृभोग्यं,
तत्र यदनुगतंमहाप्रकाशरूपं तत् महासामान्यकल्पं परमशिवरूपम् । यत्तु
कतिपयकतिपयभेदानुगतं रूपं तत्तत्त्वं, यथा पृथिवी नाम धृतिकाठिन्य-
स्थौल्यादिरूपा कालाग्निप्रभृति-वीरभद्रान्तभुवनेशाधिष्ठितसमस्तब्रह्मा-
ण्डानुगता । तत्र एषां तत्त्वानां कार्यकारणभावो दर्श्यते, स च
द्विविधः--पारमार्थिकः सृष्टश्च । तत्र पारमार्थिक एतावान् कार्यकारण-
भावो--यदुत कर्तृस्वभावस्य स्वतन्त्रस्य भगवत एवं-विधेन शिवादि-
धरान्तेन वपुषा स्वरूपभिन्नेन स्वरूपविश्रान्तेन च प्रथनं । कल्पि-
तस्तु कार्यकारणभावः परमेशेच्छया नियतिप्राणया निर्मितः; स च
यावति यदा नियतपौर्वापर्यावभासनं सत्यपि अधिके स्वरूपानुगतम्
एतावत्येव, तेन योगीच्छातोऽपि अङ्कुरो बीजादपि, स्वप्नादौ घटा-
देरपीति । तत्रापि च परमेश्वरस्य कर्तृत्वानपाय इति अकल्पितोऽपि
असौ पारमार्थिकः स्थित एव । पारमार्थिके हि भित्तिस्थानीये स्थिते
रूपे सर्वम् इदम् उल्लिख्यमानं घटते न अन्यथा, अत एव सामग्र्या
एव कारणत्वं युक्तं । सा हि समस्तभावसंदर्भमयी स्वतन्त्रसंवेदनमहिम्ना,
तथा नियतनिजनिजदेशकालाभावरराशिस्वभावा प्रत्येकं वस्तुस्वरूप-
निष्पत्तिसमये तथाभूता, तथाभूताया हि अन्यथाभावो यथा यथा
अधिकीभवति तथा तथा कार्यस्यापि विजातीयत्वं तारतम्येन पुष्यति,--
इत्येवं संवेदनस्वातन्त्र्यस्वभावः परमेश्वर एव विश्वभावशरीरो घटादे-
निर्माता--कुम्भकारसंविदस्ततोऽनधिकत्वात् कुम्भकारशरीरस्य च
भावराशिमध्ये निक्षेपात् कथं कुम्भकारशरीरस्यकर्तृत्वाभिमानः ?
इति चेत्--परमेश्वरकृत एवासौ घटादिवत् भविष्यति । तस्मात्
सामग्रीवादोऽपि विश्वशरीरस्य संवेदनस्यैव कर्तृतायाम् उपोद्वलकः ।
मेरौ हि तत्रस्थे न भवेत् तथाविधो घटः । एवं कल्पितेऽस्मिन् कार्यत्वे
शास्त्रेषु तत्त्वानां कार्यकारणभावं प्रति यत् बहुप्रकारत्वं तदपि संगतं,
गोमयात् कीटात् योगीच्छातो मन्त्रादौषधात् वृश्चिकोदयवत् । तत्र