तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 149, कुल 294 में से
संदर्भ में पढ़ें६८ ] तन्त्रसार-अभिनवगुप्त [ आ. ७
सर्वाध्वोत्तीर्णं सर्वाध्वव्यापकम् च । एतत्तत्वान्तरालवर्त्तीनी यानि
भुवनानि तत्पतय एव अत्र पृथिव्यां स्थिता इति । तेषु आयतनेषु ये
म्रियन्ते तेषां तत्र तत्र गतिं ते वितरन्ति । क्रमाच्च ऊर्ध्वोर्ध्वं प्रेरयन्ति
दीक्षाक्रमेण । तद्यथा—
कालाग्निः कूष्माण्डो नरकेशो हाटकोऽथ भूतल्पः ।
ब्रह्मा मुनिलोकेशो रुद्रः पश्चाण्डमध्यगतः ॥
अधरेऽनन्तः प्राच्याः कपालिवह्न्वन्तनिर्ऋतिबालाख्याः ।
लघूनिधिपतिविद्याधिपशम्भूध्वान्तं स वीरभद्रपतिः ॥
इति षोडशपुरमेतत्पार्थिवमण्डं निवृत्तिकला ।
लकुलीशभारभूतिदिण्डचाषाढी च पुष्करनिमेषौ ॥
प्रभाससुरेशाविति सलिले प्रत्यात्मकाष्टकं प्रोक्तम् ।
भैरवकेदारमहाकाला मध्याञ्चलवाख्याः ॥
श्रीशैलहरिश्चन्द्राविति गुह्याष्टकमिदं महसि ।
भोमेन्द्राष्ट्राः सविमलकनखलनाखलकुरूस्थितिगयाख्याः ॥
अतिगुह्याष्टकमेतन्-मरुति सत्तन्मात्रके साक्षे ।
स्थाणुसुवर्णाख्यौ किल भद्रो गोकर्णको महालयकाः ॥
अविमुक्तरुद्रकोटीवस्त्रापद इत्यदः पवित्रं खे ।
स्थूलस्थूलेशशङ्कुकृतिकालाञ्चाथ मण्डलभृत् ॥
भाकोटाण्डद्वितयच्छगलाण्डाष्टकं त्वहङ्कारे ।
अन्ये त्वहङ्कारान्तास्तन्मात्राणीन्द्रियाणि चेत्याहुः ॥
धियि देवयोनयोऽष्टौ प्रकृतौ योगाष्टकं किलाकृतप्रभृति ।
इतिसप्ताष्टकभुवनं प्रतिष्ठातः सलिलतस्तु मूलान्ता ॥
नरि वामाद्या रुद्रा एकादश वित्कलानियतिषु स्यात् ।
प्रत्येकं भुवनद्वयमथ काले तत्तत्रयं निशायां स्युः ॥
अष्टावष्टविंशतिभुवना विद्या नराग्निशान्तमियम् ।
विद्याणां पञ्च स्युर्विद्येशाष्टकमथेश्वरे तत्त्वे ॥