सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 9, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 9

किञ्चिन्निवेदनम् ॥
अयमिदानीं ताण्ड्यमहाब्राह्मणाख्यस्य सामवेदादिमब्राह्मणस्य द्वा-
दशाध्यायात्मकः प्रथमो भागः पुनर्मुद्रापितः प्रकाशं नीयते । अस्य च स-
भाष्यस्य प्राथमिकं मुद्रणं इतश्चतुष्षष्टेर्वर्षेभ्यः पूर्वं कलिकातानगरे Asiatic
Society समाख्यया समित्या कृतं प्रकाशितञ्चेति तदर्थं धन्यवादार्हा
सा समितिरतीवेति नाऽत्र संशयलेशः । तथाऽपि तदानीं समीचीनादर्श-
पुस्तकालाभेन यथाकथञ्चित् प्रकाशनेनाऽपि ग्रन्थसंरक्षणमभिप्सता तदानी-
न्तनेन प्रकाशकेन यथोपलम्भं प्रकाशं प्रापितः । अतश्च तत्र मूलेऽशुद्धि-
विशेषाभावेऽपि भाष्यमशुद्धिभरितमेव मुद्रितमासीत् । मुद्रितस्याऽपि तस्या-
ऽप्राप्तिमिदानीं पश्यता संस्कृतग्रन्थरक्षणैकदत्तचित्तेन श्रेष्ठिकुलतिलकेन
श्रीचौखम्बासंस्कृतग्रन्थावलीप्रकाशकमहोदयेन पुनर्मुद्रणमस्याऽऽरभ्य अर्धा-
धिकभागमुद्रणानन्तरमेवाऽस्मद्धस्तं प्रापितस्संशोधनाय । अस्माभिस्तु
तदनुरोधात् स्वीकृतं यद्यपि संशोधनम्, तदर्थं चाऽऽदर्शपुस्तकद्वयमानायितं
अडयार् पुस्तकालयात् बडोदापुस्तकालयाच्च, तदनुसारेण कृतमपि शोधन-
मग्रे यथारुचि, तथाऽपि तदाऽल्पावशिष्टमुद्रणेऽस्मिन् प्रथमभागे साऽऽस्था
नाऽस्माकमजनि यथा भवितव्यम् । द्वितीयभागस्तु यथामतिशक्ति परिश्रम्य
सर्वाङ्गसुन्दरः प्रकाशनीय इत्यस्ति महानाभिलाषः, यदि स सेत्स्यति मन्ये
प्रियपाठकास्तर्प्स्यन्तीति । अथ च यद्यवसरो लभ्येत पुनरपीमं भागं
सर्वाङ्गरमणीयं कृत्वा प्रकाशयिष्यामः । इदानीं ग्रन्थमिममनुपलम्भयोग्यमुप-
लब्धिविषयं कृतवतः श्रीचौखम्बाग्रन्थावल्यधिपतीनाशीर्भिरभिपूर्य स-
न्तोष्टव्यमित्यभ्यर्थये विद्वन्मणीन् । ग्रन्थविषये यद्वक्तव्यं तत् सर्वं द्विती-
यभागभूमिकायामभिधास्यते । अत्र त्वेतावतैव विरम्यते—
वाराणसीहनुमद्धट्टः }
मार्गशीर्षकृष्णसप्तमी } इति विपश्चिदनुचरः
वि० सं० १९९१ } अ० चिन्नस्वामिशास्त्री ।
२८-११-३४ ई० }