ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 400, कुल 518 में से
संदर्भ में पढ़ें३८० ताण्ड्यमहाब्राह्मणे
मदृषभवद्वज्ज्रद्यभिमतत्पञ्चमस्याऽह्नो रूपं त्रिणवस्य स्तोमस्य
पाङ्क्तस्य छन्दसः शक्करीणाँ साम्नः ॥ ५ ॥
चित्रवत् चित्रशब्दयुक्तं शिशुवत् शिशुशब्दयुक्तं एतदादिकं पञ्च-
मस्याऽह्नो रूपं त्रिणवस्तोमादेश्चैतदेव रूपं शकर्य्य इति एकस्यैव “विदा-
मघवन्नि”त्यस्यां गीयमानस्य साम्नः संज्ञा। स्त्रीत्वं बहुत्वापेक्षया शकर्य्या-
श्रयस्य साम्न इत्यर्थः। तथा पङ्क्तिच्छन्दोऽप्यस्याऽह्नो रूपम् अत एव (१)“इन्द्रो
मदाय वावृधे” इत्यादिका पङ्क्तिर्दृश्यते। सप्तपदा शक्वरी। सा च विदा-
मघवन्नित्यादिका पञ्चमेऽहनि विधित्सिता। तथा यूनाक्षरा द्वाभ्यामक्ष-
राभ्यां न्यूनाऽप्यन्या ऋगस्याऽह्नो रूपम्। गोमत् गोशब्दयुक्तं ऋषभवत्
ऋषभशब्दयुक्तम्। (२) अनूपे गोमान् गोभिरक्षा “इत्यादिकमपि पञ्चमस्य-
ऽह्नो रूपं तथा वज्रवत् वज्रयुक्तं अभिमत अभिशब्दयुक्तं (३) वज्रं हिन्व-
न्ति सायकं (४)“अभि व्रतानि पवते पुनान” इति हि तत्तत्रत्यौ मन्त्रवर्णौ।
एतावत्सर्वं पञ्चमस्याऽहस्त्रिणवस्तोमादेश्च रूपम् ॥ ५ ॥
अथ षष्ठस्याऽह्नस्त्रयस्त्रिंशस्तोमादेश्चाऽसाधारणानि रूपाण्याह —
परिवत्प्रतिवत्सप्तपदा द्विपदा विनाराशँसा गो-
मदृषभवत् षष्ठस्याऽह्नो रूपं त्रयस्त्रिँशस्य स्तोमस्य स-
र्वेषां छन्दसां रूपं रेवतीनां साम्नः ॥ ६ ॥
परिवत् परिशब्दयुक्तं प्रतिवत् प्रतीत्यनेन युक्तञ्च षष्ठस्याऽह्नो ऽह-
रन्तराद्व्यावर्त्तकं रूपं अत एवैतदुभयं तस्मिन्नहनि दृश्यते (५) “भिन्धि वि-
ड्ढा अप द्विषः परिवाधैः” इति (६) “प्रति वां सूर उदित” इति प्रति-
शब्दस्य त्रयस्त्रिंशस्तोमस्य तस्मिन्नहनि प्रयुज्यमानस्य तथा सर्वेषां
गायत्र्यादीनां छन्दसां तथा रेवतीनां (७) “रेवतीर्नः सधमाद” इति अ-
स्यामृत्पन्नं साम रेवत्यः । “आपो वो रेवत्य” इति श्रुतेः अप्त्वेन संस्तु-
तत्वात् अप्शब्दवदस्यापि स्त्रीत्वं बहुत्वञ्च, रेवत्याख्यस्य साम्नोऽप्येत-
देव रूपम्। एवमुत्तरेष्वपि योजना। सप्तपदा सप्तभिः पदैरुपैता। “सप्त
पदया यजती”ति ब्राह्मणे विशेषदर्शनात्। होत्रा साम्ना योज्येत्यवगच्छ-
ति (८) “वृषन्निन्द्र वृषपाणास इन्दवः” सुष्टुमायातमद्रिभिः अयं जायत
१. सा. सं. ३. २. १४. १. २. सा. सं. ३. २. १२. २.
३. सा. सं. ३. २. १५. २. ४. सा सं उ. ३, २. २०. ३.
५. सा. सं. उ. ४. १. ९. १. ६. सा. सं. उ. ४. १. ८. १.
७. सा. सं. उ. ४. १. १४. १.
८, ऋ. सं. २. २. ४. १. इयं पादसप्तकविशिष्टा ऋग्वेदे पठिता।