ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 369, कुल 518 में से
संदर्भ में पढ़ेंनवमाध्याये नवमः खण्डः । ३४९
इन्दुरित्यादिना मन्त्रेणाऽववृष्टस्य वर्षणेन दूषितस्य सोमस्य क्रि-
याग्रहणं कर्त्तव्य'मिति कर्मणः सम्प्रदानत्वा(१) "चतुर्थ्यर्थे बहुल"मि-
ति षष्ठी । तं सोमं भक्षयेत् ॥ १० ॥
अस्य च मन्त्रस्य शेषं दर्शयति-
'तस्य त इन्दविन्द्रपीतस्येन्द्रियावतस्सर्व्वगणस्य
सर्व्वगण उपहूत उपहूतस्य भक्षयामि' ॥ ११ ॥
अयमर्थः- इन्दुरयं रसात्मकः सोम इदममृतमयं द्युस्थानं सोम-
मवागादवाप्नोतु । हे इन्दो तस्य तथाविधस्य ते तवांशमहं भक्ष-
यामि । कीदृशस्य तव ? इन्द्रपीतस्येन्द्रण पीतस्येन्द्रियावतो वीर्य्यवतः
सर्व्वगणस्य सर्वैर्ऋत्विग्गणैरर्पितस्योपहूतस्य 'अध्वर्युरुपह्वयस्व' इत्या-
दिभिः कृतोपह्वानस्य । भक्षयिता विशेष्यते-सर्वगणः समानभक्षैरन्यैर्ऋ-
त्विग्गणैश्चक्षुरादीन्द्रियगणैर्वा युक्तोऽन्यैर्ऋत्विग्भिर्मन्त्रेणाऽनुज्ञातः ॥११॥
चमसहोमानन्तरं तद्भक्षणं कर्त्तव्यम् । कृते च तस्मिन्नध्वर्युणा
स्तोत्रोपाकरणं कार्य्यम् । यद्यध्वर्युश्चमसभक्षणात्पूर्वं स्तोत्रमुपाकुर्य्यात्
तदा कर्त्तव्यं प्रायश्चित्तमाह-
"हिरण्यगर्भः समवर्त्तताग्र" इत्याज्येनाऽभ्युपाकृतस्य
जुहुयादाग्नीध्रं परेत्य "भूतानां जातः पतिरेक आसीत् स
दाधार पृथिवीं द्यामुतेमां तस्मै त इन्दो हविषा विधेम
स्वाहे"ति सैव तस्य प्रायश्चित्तिः ॥ १२ ॥
अभ्युपाकृतस्याऽभक्षितं चमसमभिलक्ष्योपाकृतं प्रारब्धं स्तोत्रं
यस्य स तथोक्तः । तादृशस्य यजमानस्याऽनुपाकरणदोषापगमनार्थं-
माग्नीध्रीयाधिष्ण्यं परेत्य प्राप्य तस्मिन् 'हिरण्यगर्भ' इति मन्त्रेणाज्येन
द्रव्येण जुहुयात् । 'भूतानां जात' इत्यादिस्तस्य मन्त्रस्य शेषः। तस्य दोष-
स्य सैवाऽऽहुतिः प्रायश्चित्तिरूपशमहेतुः । मन्त्रस्याऽयमर्थः- अत्र सर्वस्य
भूतभौतिकप्रपञ्चस्य सृष्टेः पुरा हिरण्यगर्भः हिरण्मयस्याऽण्डस्य गर्भभूतः
प्रजापतिः समवर्त्तत परस्माद्ब्रह्मणः सकाशादजायत । स च जातो जा-
तमात्र एव भूतानां स्वात्मना सृज्यानां सर्वेषां भूतजातानामेकोऽसा-
धारणः पतिरासीदधिपतिरभवत् । स च पृथिवीं विस्तीर्णां द्यामुता-
पीमां भूमिं च दाधार धृतवान् । तस्मै हिरण्यगर्भाय हे इन्दो सोम ते
तव सम्बन्धिना हविषा विधेम परिचरेम। 'तस्मा' इति कर्मणि चतुर्थी॥१२॥
१. पा. सू. २. ३. ६२.
३० ता० ब्रा०