सामग्री पर जाएँ
सर्वकोश
ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)

Tandya Mahabrahmana with Sayanacharya Commentary

महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा

DevanagariSanskritpublished518 पृष्ठ

पृष्ठ 282, कुल 518 में से

संदर्भ में पढ़ें
पृष्ठ 282

१६२ ताण्ड्यमहाब्राह्मणे
तद्रूपत्वं स्तोतुकाम आह—
देवा वै पशून् व्यभजन्त ते रुद्रमन्तरायँस्तान्वा-
मदेव्यस्य स्तोत्र उपैक्षते ॥ १६ ॥
पूर्वं देवाः प्रजापतिना सृष्टान् पशून् व्यभजन्त परस्परं विभाग-
मकुर्वन् । ते विभजमाना विभागात् रुद्रमन्तरायन्नन्तरितवन्तः । तान्
वामदेव्यस्य स्तोत्रे क्रियमाणानुपैक्षते-उपेत्य पश्यति । पशून् घातु-
कामो रुद्रः ॥ १६ ॥
उक्तदोषपरिहाराय तस्यानिरुक्तत्वमाह—
अनिरुक्तङ्गेयम् ॥ १७ ॥
तस्मादिदानीन्तनैरप्यनिरुक्तं देवतायाः फलस्य वा कस्य चिन्नि-
र्वचनमकृत्वा वामदेव्यं गातव्यम्। अनिरुक्तकवतीव्यतिरिक्तास्वेतन्न गा-
तव्यमित्यर्थः ॥ १७ ॥
उक्तवैपरीत्ये दोषमाह—
यन्निराह रुद्राय पशूनपि दधाति रुद्रस्ताँत्समां
पशून् घातुको भवति ॥ १८ ॥
यद्यपि हि निराह निर्ब्रूते तां समान्तास्मिन् सम्वत्सरे रुद्राय पशू-
नपिदधाति स्थापितवान् भवति । स रुद्रस्तां समां पशून् घातुको
भवति । तस्मात् कवतीष्वेव गातव्यमिति तस्य स्तुतिः ॥ १८ ॥
अथ पशुकामस्य निरुक्तमपि स्तोत्रियान्तरं वामदेव्यस्य ग्राह्य-
मित्याह—
रेवतीषु व्वामदेव्येन पशुकामः स्तुवीत ॥ १९ ॥
'रेवतीर्न' इत्याद्या रेवत्यः ॥ १९ ॥
अथ तासां गोसम्बन्धमाह—
आपो वै रेवत्यः पशवो व्वामदेव्यमद्भ्य एवास्मै
पशून् प्रजनयति ॥ २० ॥
अद्भ्यो धान्यादिसमृद्धिस्तद्वारा रयिभूतं भवतीति रेवत्य आपः ।
वामदेव्यस्यान्तरिक्षरूपत्वात् पशुसम्बन्धः पूर्वमुक्तः । तथा सति
रेवतीषु वामदेव्यगानेनाद्भ्यः समुद्रात् पशूनेवास्मै यजमानाय प्रज-
नयति ॥ २० ॥
अथोक्तप्रयोगे किञ्चिद्दोषमाह—
अनर्त्तिः पशुतो भवति प्रजा त्वस्य मीलितेव