ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 241, कुल 518 में से
संदर्भ में पढ़ेंयजमानानां प्रतिपद्विधानात्, न हि व्रातशब्दबहुशब्दौ समानार्थौ ।
बहुशब्दो यजमानबहुत्वमात्रमपेक्षते व्रातशब्दस्तु परस्परसखिभूतय-
जमानसमुदायमतो न पुनरुक्तिः । तथा च कल्पकारः पूर्वस्मिन् प्रयोगे
बहुनामसखीनां यजमानानाम् ‘एते असृग्रम्’इति सस्मार, अत्र तु सखी-
नां यजमानानां ‘दविद्युतत्या रुचे’ति स्तोत्रीय इति ॥ २४ ॥
उक्तप्रतिपद्वातप्रयोगे सङ्गतेत्याह—
दविद्यूतत्या रुचेति वै गायत्र्या रूपं परिष्टोभ-
न्त्येति त्रिष्टुभः कृपेत्यनुष्टुभः सोमाः शुक्रा गवाशिर
इति जगत्याः सर्वेषां वा एषा च्छन्दसा१७रूपं च्छन्दा१७-
सीव खलु वै व्रातोपदेषा प्रतिपद्भवति स्वेनैवैना १७स्त-
द्रूपेण समर्द्धयति ॥ २५ ॥
‘दविद्युतत्येति पादे दीप्तिवाचिपदद्वयं श्रूयते । दीप्तिश्च तेजश्च ‘तेजो
वै ब्रह्मवर्चसं गायत्री’ इति श्रुतेरयं पादो गायत्र्या रूपम् । परिष्टोभन्त्ये-
त्यत्र स्तोभशब्दः श्रूयते त्रिष्टुभ्यपि स्तोभशब्दः अतो अयं भागस्त्रि-
ष्टुभोरूपम् । ‘कृपेति वाङनाम’ ‘वागनुष्टुप्’ इति श्रुतेरेतत्पादमनुष्टुभो
रूपम्। सोमाः शुक्रा’ इति पादे गोशब्दः श्रूयते जगत्यामपि गच्छतीति जग-
तीति व्युत्पत्तिरत उभयत्र गमिधातुसाम्यादयं पादो जगत्या रूपम् ।
एवमेषा प्रतिपत् सर्वेषां हि छन्दसां रूपम् । छन्दांसीव उक्तानि चत्वारि
छन्दांस्येवै खलु ‘व्रातशब्दः समुदायवाची’ अत्रापि छन्दःसमुदायोऽस्ति ।
एवं सति यदेषा प्रतिपद्भवति एतान् यजमानान् तेनैव स्वेन रूपेण
समर्द्धयति । एषा प्रतिपत् स्वस्मिन् गायत्र्यादिच्छन्दोद्वारैर्दीप्त्यादिरूपैः
समृद्धान् करोतीत्यर्थः ॥ २५ ॥
पुनरेषा समृद्धिसाधनत्वेन व्रातयोग्येत्याह—
व्यूद्धा वा एत इन्द्रियेण ०वीर्येण यद्व्रात इन्द्रियं
०वीर्यं च्छन्दांसीन्दियेणैवैनान्वीर्येण समर्द्धयति॥२६॥
यत् यो व्रातोऽस्मिन् एते व्रातावयवभूताः सखायो यजमाना
इन्द्रियवीर्याभ्यां व्यूद्धा विहीना वै व्रातात्मकत्वादेव असमर्थाः खलु ।
लोके परस्परसङ्घातानपेक्षन्ते छन्दांसि तु इन्द्रियवीर्ये तत्समर्थत्वादेषा
सर्वच्छन्दोरूपा प्रतिपदेतान् यजमानान् इन्द्रियेण वीर्येण च
समर्द्धयति ॥ २६ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य नवमः खण्डः ।