ताण्ड्य महाब्राह्मण / पञ्चविंश ब्राह्मण (सायण भाष्य एवं चिन्नस्वामी शास्त्री टीका सहित)
Tandya Mahabrahmana with Sayanacharya Commentary
महर्षि ताण्डि (भाष्यकार: श्रीमत् सायणचार्य) द्वारा
पृष्ठ 230, कुल 518 में से
संदर्भ में पढ़ें२१० ताण्ड्यमहाब्राह्मणे
अष्ठीवता जानुनोपस्पृशता तत्रासञ्जयता प्रस्तरमुद्गेयम् । आसञ्जता-
द्धविषोऽस्कन्दः भूमेः उपरि स्थापनात् स्वर्गादनवग्रहश्च भवति ॥ २३॥
अथ बहिष्पवमानस्य स्तोत्रस्य चात्वालसम्बन्धं सार्थवादमाह—
चा॒त्वा॒लमवेक्ष्य॑ ब॒हिष्प॑वमानग्ँ॑ स्तु॑वन्त्यत्र॒ वा
अ॒सावा॑दि॒त्य आ॑सी॒त्तं दे॒वा ब॒हिष्प॑वमानेन॒ स्वर्गँ॑ लो॒क
मह॑र॒न्यच्चा॑त्वा॒लमवेक्ष्य॑ ब॒हिष्प॑वमानग्ँ॑ स्तु॒वन्ति॑ यज॑-
मानमेव॒ तत् स्वर्गँ॑ लो॒कग्ँ॑ हरन्ति ॥ २४ ॥
उद्गातारश्चात्वालदेशमवेक्ष्य बहिष्पवमानं स्तुवन्ति तत्र स्थित्वा
स्तोतव्यमित्यर्थः । तत्किमर्थमित्याह पूर्वं अत्र चात्वालदेशे खल्वसौ
दिवि दृश्यमान आदित्य आसीत् । तमादित्यं देवाः बहिष्पवमानेन
स्तोत्रेण स्वर्गं लोकमहरन् । तथा सति यच्चात्वालावेक्षणपूर्वकं बहि-
ष्पवमानस्तवनं तत् यजमानस्य स्वर्गलोकहरणाय भवति ॥ २४ ॥
इति ताण्ड्यमहाब्राह्मणे षष्ठाध्यायस्य सप्तमः खण्डः ।
अथ अष्टमः खण्डः ।
अथास्मिन् खण्डे बहिष्पवमान एव स्तूयते नवभिः स्तोत्रीयाभिः
हिङ्कारे दशमीभिः स्तोतव्यमिति विवक्षुराह—
स तु वै य॒ज्ञेन॑ यजेते॒त्या॒हुर्य॑स्य॒ न्वि॑रा॒जं य॒ज्ञमु॒खे
दध्युरिति॑ ॥ १ ॥
यस्य यजमानस्य यज्ञमुखे यज्ञस्य मुखस्थानीये बहिष्पवमाने वा-
ङ्व्यापारे बहिष्पवमानस्य प्राथम्याद्यज्ञमुखत्वं तस्मिन्विराजं दध्युः प्र-
क्षिपेयुर्गायेयुरित्यर्थः । स एव खलु यजमानो यज्ञेन यजेत यष्टवानित्या-
हुर्ब्रह्मवादिनः ॥ १ ॥
इदानीं विराट्प्रदर्शनद्वारेण तद्विधत्ते—
नव॑भिः स्तुवन्ति हिङ्का॒रो द॑श॒मो दशा॑क्षरा वि॒रा-
ड् वि॒राज॑मे॒वास्य॑ य॒ज्ञमु॒खे द॑धति ॥ २ ॥
नवभिः स्तोत्रीयाभिस्त्रिवृत्स्तोमगताभिः स्तुवन्ति स्तुयुरित्यर्थः ।
तासां हिङ्कारो दशमो भवति । तथा सति दशसङ्ख्या सम्पद्यते । विरा-
डपि दशाक्षरा तद्वारा अस्य यजमानस्य यज्ञमुखे बहिष्पवमाने विराज-
मेव दधति स्थापयन्त्युद्गातारः ॥ २ ॥