सामग्री पर जाएँ
सर्वकोश
तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)

तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)

Taittiriya Upanishad with Shankara Bhashya

आदि शङ्कराचार्य द्वारा

स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)

DevanagariSanskritpublished261 पृष्ठ

पृष्ठ 33, कुल 261 में से

संदर्भ में पढ़ें
पृष्ठ 33

तृतीय अनुवाक
पाँच प्रकारकी संहितोपासना
अधुना संहितोपनिषदुच्यते— | अब संहितासम्बन्धिनी उपनिषत्
( उपासना ) कही जाती है—
सह नौ यशः । सह नौ ब्रह्मवर्चसम् । अथातः
सꣳहिताया उपनिषदं व्याख्यास्यामः । पञ्चस्वधिकरणेषु ।
अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् । ता
महासꣳहिता इत्याचक्षते । अथाधिलोकम् । पृथिवी
पूर्वरूपम् । द्यौरुत्तररूपम् । आकाशः संधिः ॥ १ ॥
वायुः संधानम् । इत्यधिलोकम् । अथाधि-
ज्यौतिषम् । अग्निः पूर्वरूपम् । आदित्य उत्तररूपम् ।
आपः संधिः । वैद्युतः संधानम् । इत्यधिज्यौतिषम् । अथा-
धिविद्यम् । आचार्यः पूर्वरूपम् ॥ २ ॥
अन्तेवास्युत्तररूपम् । विद्या संधिः । प्रवचनꣳ-
संधानम् । इत्यधिविद्यम् । अथाधिप्रजम् । माता पूर्व-
रूपम् । पितोत्तररूपम् । प्रजा संधिः । प्रजननꣳसंधानम् ।
इत्यधिप्रजम् ॥ ३ ॥
अथाध्यात्मम् । अधरा हनुः पूर्वरूपम् । उत्तरा
हनुरुत्तररूपम् । वाक्संधिः । जिह्वा संधानम् । इत्य-
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri