तैत्तिरीयोपनिषद् (शाङ्करभाष्य सहित)
Taittiriya Upanishad with Shankara Bhashya
आदि शङ्कराचार्य द्वारा
स्रोत: Gita Press Gorakhpur · Gita Press, Gorakhpur (उद्गम)
पृष्ठ 236, कुल 261 में से
संदर्भ में पढ़ेंदशम अनुवाक
गृहागत अतिथिको आश्रय और अन्न देनेका विधान एवं
उससे प्राप्त होनेवाला फल; तथा प्रकारान्तरसे
ब्रह्मकी उपासनाका वर्णन
न कंचन वसतौ प्रत्याचक्षीत । तद्व्रतम् । तस्माद्यया
कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्न-
मित्याचक्षते । एतद्वै मुखतोऽन्नꣳराद्धम् । मुखतोऽस्मा
अन्नꣳराध्यते । एतद्वै मध्यतोऽन्नꣳराद्धम् । मध्यतो-
ऽस्मा अन्नꣳराध्यते । एतद्वा अन्ततोऽन्नꣳराद्धम् ।
अन्ततोऽस्मा अन्नꣳराध्यते ॥ १ ॥
य एवं वेद । क्षेम इति वाचि । योगक्षेम इति
प्राणापानयोः । कर्मेति हस्तयोः । गतिरिति पादयोः ।
विमुक्तिरिति पायौ । इति मानुषीः समाज्ञाः । अथ दैवीः ।
तृप्तिरिति वृष्टौ । बलमिति विद्युति ॥ २ ॥
यश इति पशुषु ज्योतिरिति नक्षत्रेषु । प्रजातिरमृत-
मानन्द इत्युपस्थे । सर्वमित्याकाशे । तत्प्रतिष्ठेत्युपासीत ।
प्रतिष्ठावान् भवति । तन्मह इत्युपासीत । महान्
भवति । तन्मन इत्युपासीत । मानवान् भवति ॥ ३ ॥
तन्नम इत्युपासीत । नम्यन्तेऽस्मै कामाः ।
तद्ब्रह्मेत्युपासीत । ब्रह्मवान् भवति । तद्ब्रह्मणः परिमर
CC-0 Pt. Chakradhar Joshi and Sons, Dev Prayag. Digitized by eGangotri