तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 316, कुल 345 में से
संदर्भ में पढ़ेंतैत्तिरीयब्राह्मणम् (१.७.२) २८७
नाऽऽर्द्रे॑ण हनः (६) न दिवा॒ न नक्त॒मिति॑ । स ए॒तम॒पां
फेन॑मसिञ्चत् । न वा ए॒ष शुष्को॒ नाऽऽर्द्रो व्यु॑ष्टासीत् ।
अनु॑दितः॒ सूर्यः॑ । न वा ए॒तद्दिवा॒ न नक्तम्॑ ।
तस्यै॒तस्मिँ॑ल्लो॒के । अ॒पां फेने॑न॒ शिर॒ उद॑वर्तयत् ।
तदेन॒मन्व॑वर्तत । मि॒त्र॒ध्रुगि॑ति । (७) । स ए॒तानपा॒मा-
र्गा॑न॑जनयत् । तान॑जुहोत् । तैर्वै स रक्षा ँ॑स्यपा॑हत॒ यद॑पा-
मार्गहो॒मो भ॑व॑ति । रक्ष॑सा॒मप॑हत्यै । एको॒ल्मुके॑न॒ यन्ति ।
तद्धि रक्ष॑सा भा॒गधेय॑म् । इ॒मां दिशं॑ यन्ति । ए॒षा वै रक्ष॑सां
दिक् । स्वाया॑मे॒व दिशि॒ रक्षा ँ॑सि हन्ति (८) । स्वकृ॑त॒
इरि॑णे जुहोति प्र॒दरे॒ वा॑ । ए॒तद्वै रक्ष॑सामा॒यत॑नम् । स्व
ए॒वाऽऽय॑तने॒ रक्षा ँ॑सि हन्ति । प॒र्णमये॑न स्रु॒वेण॑ जुहोति ।
ब्रह्म॒ वै प॒र्णः । ब्रह्म॑णैव॒ रक्षा ँ॑सि हन्ति । दे॒वस्य॑ त्वा
सवि॒तुः प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒व रक्षा ँ॑ सि
हन्ति । ह॒त ꣳ रक्षोव॑धिष्म॒ रक्ष॒ इत्या॑ह । रक्ष॑सा ꣳ स्तृ॒त्यै॑ ।
यद्ब॒स्ते तद्दक्षि॑णा॒ निर्व॑स्यै । अप्र॑तीक्ष॒मार्य॑न्ति ।
रक्ष॑साम॒न्तर्हि॑त्यै (९)।
यच्छ॑ति॒ वरु॑णं तृ॒तीयं॒ विर्जि॑त्या॒ असृ॑जत॒ समृ॑द्ध्यै॒ हनो॒ मित्र॑ध्रुगि॒ति
हन्ति॒ स्तृत्यै॒ त्रीणि॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके
सप्तमाध्याये प्रथमोऽनुवाकः ॥ १ ॥
अथ सप्तमप्रपाठके द्वितीयोऽनुवाकः ।
धा॒त्रे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति । सं॒व॒त्स॒रो वै
धा॒ता । सं॒व॒त्स॒रेणै॒वास्मै॑ प्र॒जाः प्र॒जन॑यति । अन्वे॒वास्मा॒
अनु॑मतिर्मन्यते । रा॒ते रा॒का । सि॑नीवा॒ली ज॑नयति ।
प्र॒जास्वे॒व प्र॒जावा॑सु कु॒ह्वां वाचं॑ दधाति । मि॒थु॒नौ गावो॑
दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒वमेका॑दशकपालं