सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)

Taittiriya Brahmana with Sayana Bhashya Part 1

महर्षि तित्तिरि / सायणभाष्य द्वारा

स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)

DevanagariSanskritpublished345 पृष्ठ

पृष्ठ 310, कुल 345 में से

संदर्भ में पढ़ें
पृष्ठ 310

पि॒तॄणा॑म् । अर्ध॑ उप॑मन्थति । अर्धो॑ हि पि॒तॄणा॑म् ।
एक॒योप॑मन्थति (४) । एका॒ हि पि॒तॄणा॑म् ।
दक्षि॑णोप॑मन्थति । दक्षि॑णावृद्धि पि॒तॄणा॑म् ।
अना॑रभ्योप॑मन्थति । तद्धि पि॒तॄन्गच्छ॑ति । इ॒मां दिशं॑
वेदि॒मुद्ध॑न्ति उ॒भये॑ दे॒वाश्च॑ पि॒तर॑श्चे॒जय॑न्तै । चतु॑ःस्रक्तिः
भ॑वति । सर्वा॒ ह्यनु॒दिश॑: पि॒तर॑: । अखा॑ता भवति (५) ।
खा॒ता हि दे॒वाना॑म् । मध्य॒तोऽग्निराधी॑ते । अ॒न्ततो हि
दे॒वाना॑माधी॒यते॑ । वर्षी॑यानिध्म इ॒ध्माद्भव॑ति । व्यावृत्यै॑ ।
परि॑श्रयति । अन्तर्हि॑तो हि पि॒तृलो॒को म॑नुष्यलो॒कात् ।
यत्प॑रुषि 'दिनम् । तद्दे॒वाना॑म् । यद॑न्तरा । तन्म॑नुष्या॑णाम्
(६) । यत्स॑मूलम् । तत्पि॑तॄणा॑म् । समूलं॑ ब॒र्हिर्भव॑ति
व्यावृत्यै॑ । दक्षि॑णा स्तृणाति । दक्षि॑णावृद्धि पि॒तॄणा॑म् ।
त्रिः पर्ये॑ति । तृतीये॑ वा इ॒मो लो॒के पि॒तर॑: । ताने॒व
प्री॑णाति । त्रिः पुनः पर्ये॑ति । षट् संप॑द्यन्ते (७) । षड्
वा ऋ॒तव॑: । ऋ॒तूने॒व प्री॑णाति । यत्प्र॑स्तरं यजु॑षा
गृ॒ह्णीयात् । प्र॒मायु॑को यज॑मानः स्यात् । यन्न गृ॒ह्णीयात् ।
अना॑यतनः स्या॑त् । तूष्णीमे॒व न्य॑स्येत् । न प्र॒मायु॑को
भ॑वति । नाना॑यतनः । यत्त्रीन्परि॑धीन्परि॒दध्या॑त् (८) ।
मृ॒त्युना॒ यज॑मानं परि॑गृह्णीयात् । यन्न परि॑दध्यात् रक्षा ँ
सि य॒ज्ञं ह॑न्युः । द्वौ परि॑धी परि॑दधाति रक्ष॑सामप॑हत्यै ।
अथो॑ मृ॒त्योरे॒व यज॑मानमुत्सृ॑जति । यत्त्री ँ स्त्रीणि ह॒वी ँ
ष्यु॑दा॒हरे॑युः । त्र॒यस्त्रय ए॒षा ँ सा॒कं प्रमी॑येरन् ।
एकै॑कमनूचीना॑न्युदाह॑रन्ति । एकै॑क ए॒वैषा॑म॒न्वञ्च॑:
प्रमी॑यते । क॒शिपु॑ कशिपु॒व्या॑य । उप॑बर्ह॑णमुपबर्ह॒ण्या॑य ।
आ॒ञ्जन॑माञ्ज॒न्या॑य । अ॒भ्य॒ञ्जन॑मभ्यञ्ज॒न्या॑य । य॒थाभा॒गमे
वैना॑न्प्रीणाति (९) ।