तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 255, कुल 345 में से
संदर्भ में पढ़ें२२६ (१.५.२) तैत्तिरीयब्राह्मणम्
यो वै न॑क्ष॒त्रियं॑ प्र॒जाप॑तिं॒ वेद॑ । उ॒भयो॑रेनं लो॒कयो॑र्विदुः।
हस्त॑ ए॒वास्य॒ हस्त॑: । चि॒त्राशिर॑: निष्ट्या॒ हृदय॑म् । ऊ॒रू
विशा॑खे । प्र॒तिष्ठा॒ऽनूरा॒धाः। ए॒व वै न॑क्ष॒त्रिय॑: प्र॒जाप॑तिः ।
य ए॒वं वेद॑ । उ॒भयो॑रेनं लो॒कयो॑र्विदुः(२) । अ॒स्मि॑१५
श्चा॒मुष्मि॑१५ श्चँ, इति॑ ।।
नक्षत्राण्येव शरीरं यस्य प्रजापतेस्तं प्रजापतिं यः पुरुषो वेदोपास्ते
तं पुरुषं लोकद्वये देवामनुष्याश्च जानन्ति । तथाविधख्यातियुक्तो
भवतीत्यर्थः । यदिदं हस्तनक्षत्रं तदेव प्रजापतेर्हस्तस्थानीयम् । चित्रानक्षत्रं
तु शिरःस्थानीयम् । निष्ट्या स्वातीनक्षत्रं तु हृदयस्थानीयम् ।
विशाखानक्षत्रमूरुस्थानीयम् । अनूराधानक्षत्रं पादस्थानीयम् ।
एवमुपास्यमानः प्रजापतिर्नक्षत्रियः । य एवं वेत्यादेः
पुनरभिधानमुपसंहारार्थम् । अथ प्रासङ्गिकं किंचिल्लौकिकं काम्यं कर्म
विधत्ते-
यां का॒मये॑त दुहि॒तरं॑ प्रि॒या स्या॒दिति॑ । तां नि॒ष्ट्या॑या
द॒द्यात् । प्रि॒यैव भ॑वति॒ नैव तु पुन॒राग॑च्छति, इति ।
निष्ट्या स्वातीनक्षत्रं तस्मिन्नक्षत्रे दत्ता दुहिता पत्युः प्रियैव भवति।
किं त्वस्ति कश्चिदन्यो विशेषः । पितुर्गृहं नाऽऽगच्छत्येवाऽऽगन्तुं मनस्तु
न कुरुते । नेयं नक्षत्रनिन्दा, किंतु प्रीत्यतिशयज्ञापकत्वेन नक्षत्रस्तुतिरेव ।
अथान्यत्किंचिल्लौकिकं कर्म विधत्ते-
अ॒भि॒जिन्नाम॒ नक्ष॑त्रम् । उ॒परि॑ष्टात् । अ॒वस्ता॑च्छ्रो॒णायै॑ ।
दे॒वा॒सु॒राः संय॑त्ता आसन् । ते दे॒वास्तस्मि॑न्नक्ष॑त्रे॒ऽभ्य॑जयन्
(३) यद॒भ्यर्जयन् । तद॒भिजितो॑ऽभिजित्वम् । यं
का॒मये॑तानपज॒य्यं ज॑ये॒दिति॑ । तमे॒तस्मि॑न्नक्ष॑त्रे यातयेत् ।
अन॒पज॒य्यमे॒व ज॑यति । पा॒प॒राजितमि॒व तु, इति॑ ।
उत्तराषाढानक्षत्रस्य यश्चतुर्थः पादः श्रवणनक्षत्रस्य यः प्रथमः
पादस्तदुभयं मिलित्वा नक्षत्रसंधिरूपमभिजिदाख्यं किंचिन्नक्षत्रम् ।
देवास्तस्मिन्नक्षत्रे युद्धं कृत्वाऽभितां जितवन्तः । तस्मादभिजिदिति नाम
संपन्नम् । एवं सति केनापि जेतुमशक्यं सैन्यमयं राजा जयेत्विति
कामयमानोऽभिजिन्नक्षत्रे प्रयत्नं कारयेत्ततो जयत्येव । किं त्वस्ति