तैत्तिरीय ब्राह्मण (कृष्ण यजुर्वेद - सायणभाष्य सहित भाग १)
Taittiriya Brahmana with Sayana Bhashya Part 1
महर्षि तित्तिरि / सायणभाष्य द्वारा
स्रोत: नाग पब्लिशर्स दिल्ली · नाग पब्लिशर्स दिल्ली · 1950 (उद्गम)
पृष्ठ 253, कुल 345 में से
संदर्भ में पढ़ें२२४ (१.५.१) तैत्तिरीयब्राह्मणम्
अत एवाऽधानप्रकरणे "अहे॑ बु॒ध्निय॒ मन्त्रं॑ मे गोपाय" इत्याम्नातम् । सोऽ
यमहिंसकत्वादन्येन हिंसितुमशक्यत्वाच्चाहिः । बुध्ने मूले
जगदादाबुत्पन्नत्वाद् बुध्नियः । उत्तरे इत्यत्र प्रोष्ठपदा इत्यनुवर्तते । राज-
सूयादियागविशेषेष्वभिषेककर्तार ऋत्विजोऽभिषिञ्चन्तः ।
सोमयागेष्वभिषवं कुर्वन्तोऽभिषुण्वन्तः ।
पञ्चविशं मन्त्रमाह-
पू॒ष्णो रे॒वती॑ । गावः॑ पु॒रस्ता॑द्व॒त्सा अ॒वस्ता॑त्, इति ।
गावः प्रसिद्धाः । वत्साश्च पोषणीयाः।
षड्विशं मन्त्रमाह-
अ॒श्विनो॑र॒श्वयुजौ॑ । ग्रा॒मः पु॒रस्ता॒त्सेना॑ऽव॒स्ता॑त्, इति ।
देवभिषग्भ्यामश्विभ्यां चिकित्सनीय एकस्थाननिवासो जनसंघो
ग्रामः । परराष्ट्रं गच्छञ्जनसंघः सेना । साऽ प्यश्विभ्यां चिकित्सनीयैव ।
सप्तविंशं मन्त्रमाह-
य॒मस्या॑प॒भर॑णीः । अ॒प॒कर्ष॑न्तः पु॒रस्ता॑दप॒वह॑न्तोऽव॒स्ता॑त्,
इति ।
पापिजनान्यातयितुं बलादानयन्तो दूता अपकर्षन्तः । आनीतानां
यातनां कुर्वन्तोऽपवहन्तः । एतेषु सर्वेष्वपि मन्त्रेषु नक्षत्राधिपतिदेवताया
अनुकूला पार्श्वद्वयवर्तिनावर्थौ योजनीयौ ।
अष्टाविंशैकोनत्रिंशयोर्मन्त्रयोः प्रतीके दर्शयति-
पू॒र्णा प॒श्चाद्यत्ते॑ दे॒वा अद॑धुः (५), इति ।
आ॒र्द्रामव॒स्ता॑दर्हमाना अ॒वस्ता॑द॒भ्यारू॑ढमव॒स्तात्पन्था॑ अ॒वस्ता॑द्व॒त्सा
अ॒वस्ता॒त्पञ्च॑ च ।
इति कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणे प्रथमाष्टके पञ्चमाध्यये
प्रथमोऽनुवाकः ॥ १ ॥
पूर्णा पश्चादुत पूर्णा पुरस्तादित्येका । यत्ते देवा
अदधुर्भागधेयमित्यन्या । एतच्चोभयं संहितायां तृतीयकाण्डे
व्याख्यातम् । एतैरेकोन त्रिंशन्मन्त्रैः क्वचिद्विकृतिविशेषे चयने
प्रकृतिमन्त्रान्बाधित्वा नक्षत्रेष्टका उपदध्यात् ।