सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 883, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 883

८८४ परिशिष्टत्वेन संगृहीतः— [अनु० ६९]
विधशरीरेषु भूतेषु प्राणिषु गुहायामन्तर्हृदयपुण्डरीकमध्ये चरति वर्तते । एवं परो-
क्षेण सर्वात्मकत्वमुक्त्वेदानीमपरोक्षेण परमात्मनः सर्वात्मकत्वं दर्शयति । हे भगवंस्त्वं
यज्ञो नानाविधक्रतुरूपः । त्वमेव वषट्कारो देवान्प्रदायकशब्दविशेषः । औपलक्षण्येन
त्वमेव स्वाहास्वधाहन्तकारादिः । त्वमेवेन्द्ररुद्राविष्णुब्रह्मरूपः । त्वमेव प्रजापतिर्वि-
राट् । त्वमेव तत्प्रसिद्धं ब्रह्माण्डम् । त्वमेवाऽऽपो नद्यादिगताः । त्वमेवाऽऽपः पारा-
वारगताः । त्वमेव ज्योतिः सूर्यादि । त्वमेव रसो मधुरादिः । त्वमेवामृतं सुधा । त्वमेव
ब्रह्म वेदकूटम् । त्वमेव भूर्भुवः सुवस्त्रैलोक्यम् । त्वमेवोंकारः शब्दब्रह्म ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययु-
क्तायां याज्ञिक्यामुपनिषदि भाष्येऽष्टषष्टितमोऽनुवाकः ॥ ६८ ॥
अथैकोनसप्ततितमोऽनुवाकः ।
अथ प्राणाहूतिमन्त्रान्दर्शयति—
श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टोऽमृतं॑ जुहोमि । श्र॒द्धायां᳚-
मपा॒ने निवि॑ष्टोऽमृतं॑ जुहोमि । श्र॒द्धायां᳚ व्या॒ने
निवि॑ष्टोऽमृतं॑ जुहोमि । श्र॒द्धाया॑मुदा॒ने निवि॑ष्टोऽ-
मृतं॑ जुहोमि । श्र॒द्धाया॑ꣳ समा॒ने निवि॑ष्टोऽमृतं॑
जुहोमि । ब्रह्म॑णि म आ॒त्माऽमृ॑तत्त्वा॒य, इति ।
वैदिककर्मणि विश्वासातिशयः श्रद्धा, तस्यां सत्यां पञ्चसु शरीरगतवायुभेदेषु मध्ये
प्रथमं प्राणनामके वायौ निविष्ट आदरयुक्तोऽहममृतं स्वादुभूतमिदं हविर्जुहोमि प्रक्षि-
पामि । एवमपानादिषु योज्यम् । एताभिः पञ्चभिराहुतिभिरमृतत्वाय मोक्षाय मे
मदीय आत्मा जीवो ब्रह्मणि परमात्मन्येकी भवत्विति शेषः ।
अथ भोजनादावपां प्राशने मन्त्रमाह—
अ॒मृतोपस्त॑रणमसि, इति ।
हे पीयमान जल त्वममृतं विनाशरहितं प्राणदेवताया [उपस्तरणमसि । तथा
शयानस्य पुरुषस्य मञ्चकस्योपरि तूलपटादिकमुपस्तीर्यते तद्वत्प्राणदेवताया ] इदमुपस्त-
रणम् । तथा च वाजसनेयिनः प्राणविद्यायां प्राणदेवताया जलवस्त्रत्वमामनन्ति—
“तस्मादशिष्यन्नाचामेदशित्वाऽऽचामेदेतदेव तदनग्नं कुरुते” इति ।
प्राणाहूतिष्वेव विकल्पितानि मन्त्रान्तराणि दर्शयति—
श्र॒द्धायां᳚ प्रा॒णे निवि॑ष्टो॒ऽमृतं॑ जुहोमि । शि॒वो मा॑