तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 877, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 877४७४ परिशिष्टत्वेन संगृहीतः— [अनु० ६६]
४७४ परिशिष्टत्वेन संगृहीतः— [अनु० ६६]
उत्ति॑ष्ठ पुरु॒ष ह॑रि॒त पि॒ङ्गल लोहि॑ताक्षि दे॒हि दे॒हि॑ ददापयिता
मे॒' शुध्य॑न्तां ज्योति॑र॒हं वि॒रजा॑ वि॒पाप्मा भू॑यासꣳ॒ स्वाहा॑ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणोप-
निषदि पञ्चषष्टितमोऽनुवाकः ॥ ६५ ॥
उत्तिष्ठेति । शुद्धिहेतुत्वेनात्र सर्वकर्मनिष्पादकं वह्निशरीरोपाधिकं [ परमात्मानं ]
प्रार्थयते—पुरुष पुरी [वह्नि]शरीरे शयान हे परमात्मन्नुत्तिष्ठ, औदासीन्यं परित्यज्य
मदनुग्रहार्थमुद्युक्तो भव । संबुद्ध्यन्तपुरुषशब्दस्यैव हरितादीनि त्रीणि पदानि विशेष-
णानि । हे हरित प्रतिबन्धहरणकुशल । हे पिङ्गल पिङ्गलवर्ण । लोहिताक्षि रक्तन-
यन । देहि देहि पुनः पुनः शुद्धिं मे प्रयच्छ । ददापयिताऽऽचार्यमुखात्तत्त्वविज्ञान-
स्यातिशयेन दापयिता भवेति शेषः । तस्य* दापयितुर्ज्ञानस्योत्पत्तये मे मदीयाश्चित्त-
वृत्तयः शुद्ध्यन्ताम् । ज्योतिरहमित्यादि पूर्ववत्+ ॥
इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यकदशमप्रपाठके नारायणीयापरनामधेययुक्तायां
याज्ञिक्यामुपनिषदि भाष्ये पञ्चषष्टितमोऽनुवाकः ॥ ६५ ॥
अथ षट्षष्टितमोऽनुवाकः ।
पृथिव्यापस्तेजो वायुराकाशा मे॑ शुध्यन्तां॒ ज्योति॑-
रहं वि॒रजा॑ वि॒पाप्मा भू॑यासꣳ॒ स्वाहा॑ ।
पृथिवीति । शरीरस्योपादानकारणानि पृथिव्यादीनि । पूर्ववदन्यत् = ।
शब्दस्पर्शरूपरसगन्धा मे॑ शुध्यन्तां॒ ज्योति॑-
रहं वि॒रजा॑ वि॒पाप्मा भू॑यासꣳ॒ स्वाहा॑ ।
शब्दस्पर्शेत्यादि । शरीरोपादानपञ्चमहाभूतेष्वाकाशादिषु वर्तमाना गुणाः शब्दा-
दयः । पूर्ववदन्यत् × ।
मनोवाक्कायक॑र्माणि मे॑ शुध्यन्तां॒ ज्योति॑रहं
वि॒रजा॑ वि॒पाप्मा भू॑यासꣳ॒ स्वाहा॑ ।
- दापयितुः सकाशात्तस्य ज्ञानस्य पूर्वोक्ततत्त्वविज्ञानस्योत्पत्तय इति संबन्धः । + एतदग्रे क.
पुस्तके (७२) तमानुवाकसमाप्तिर्वर्तते । सा च मूलोक्तानुवाकपरिगणनविरुद्धा । = एतदग्रे क. पुस्तके
(७३) तमानुवाकसमाप्तिर्दृश्यते । सा च मूलोक्तानुवाकपरिगणनविरुद्धा । × एतदग्रे क. पुस्तके
(७४) तमानुवाकसमाप्तिर्दृश्यते सा च मूलोक्तानुवाकपरिगणनविरुद्धा ।
१ व. ८२ ।