तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 84, कुल 914 में से
संदर्भ में पढ़ें[प्रपा० १ अनु० २२] कृष्णयजुर्वेदीयं तैत्तिरीयारण्यकम् । ७९
समाहितासोऽप्रमत्ताः सन्तः, शतधा हि शतसंख्याकेनापि प्रकारेण प्रतिष्ठां स्थैर्यहेतुं
सहस्रधायसं सहस्रसंख्याकस्य फलस्य धारयित्रीम्, इष्टकामुपद॑धत्विति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरी-
यारण्यकभाष्ये प्रथमप्रपाठके एकविंशोऽनुवाकः ॥ २१ ॥
अथ प्रथमे द्वाविंशोऽनुवाकः ।
एतावत्स्वनुवाकेष्वप्रधानमन्त्राः प्रायेणाभिहिताः, अतः परमिष्टकानां ब्राह्मणमुच्यते ।
तत्राऽऽदौ तावदापो बहुधा प्रशस्यन्ते । तत्र प्रथमां प्रशंसामाह—
योऽपां पुष्पं॒ वेद॑ । पु॒ष्प॑वाᳯन्प्र॒जावांᳯन्पशु॒मान्भ॑-
वति । च॒न्द्रमा॒ वा अ॒पां पुष्प॑म् । पु॒ष्प॑वाᳯन्प्र॒जा-
वा॑न्पशु॒मान्भ॑वति । य ए॒वं वेद॑, इति ।
अमृतमयं हि चन्द्रमण्डलम् । अतो जलकार्यत्वादपां पुष्पस्थानीयम् । एतस्य
वेदिता स्वयं भोगार्थं चम्पकबकुलादिपुष्पैः पुत्रादिप्रजया गवादिपशुभिश्च समृद्धो
भवति । वेदने प्ररोचनार्थमादौ फलकथनम्, उपसंहारार्थं पुनः कथनम् ।
अथ द्वितीयां प्रशंसामाह—
योऽपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान्भवति । अ॒ग्निर्वा अ॒पा-
मा॒यत॑नम् । आ॒यत॑नवान्भवति । योऽग्नेरा॒यत॑नं॒ वेद॑
( १ ) । आ॒यत॑नवान्भवति । आपो॒ वा अ॒ग्नेरा॒-
यत॑नम् । आ॒यत॑नवान्भवति । य ए॒वं वेद॑, इति ।
सृष्टिश्रुतौ “ अग्नेरापः ” इत्यग्नेर्जलकारणत्वाभिधानादग्निरपामाश्रयः । अत्रापि
प्ररोचनार्थमादौ फलकथनम्, उपसंहारार्थं पुनरप्यायतनवानित्यभिधानम् । तत्र य
एवं वेदेत्यध्याहरणीयम् । महासृष्टावपामग्निकार्यत्वेऽपि ब्रह्माण्डाद्यवान्तरसृष्टौ “ आपो
वा इदमासन्सलि॑ल॑मेव ” इत्यादिवाक्येनापां सर्वकारणत्वाभिधानाद्ब्रह्माण्डान्तःपातिनोऽ-
स्मद्दृश्यस्याग्नेर्जलकार्यत्वादपामग्न्याधारत्वम् । अत्रापि प्ररोचनार्थमुपसंहारार्थं द्विः फल-
कथनम् । सेयं जलाग्न्योः परस्पराधारत्वोक्तिर्द्वितीया प्रशंसा । एवमुत्तरत्र द्रष्टव्यम् ।
१ क. ख. ग. °दधात्वि° । २ ख. ग. प्रशस्यते । ३ क. ख. °थमप्र° । ४ ग. °गार्थं च° ।
५ ग. बहुला° । ६ ख. ग. °ल्मासीद्विरु० ।