सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 812, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 812

[ अनु० १ ] साभाष्यो दशमप्रपाठकः । ८०७
मोक्षरूपफलत्वान्महते, *भुक्तिमुक्तिप्रयोजनायास्मान्पोषय । अन्यथा जीवनं व्यर्थमित्य-
भिप्रायः । किंच हे आपो वो युष्माकं यः शिवतमः कल्याणतमो रसो माधुर्यलक्ष-
णोऽस्ति तस्येहास्यां भुवि विद्यमानान्भोऽस्मान्भाजयत पवित्रयत(पात्रयत) स्थानं
कुरुतेत्यर्थः । यथा भाजने जलं तिष्ठति तथा युष्मदीयो रसोऽस्मासु तिष्ठत्विति भावः ।
अत्र निदर्शनं प्रदर्शयति । [मातर] इव यथा मातरः स्वापत्यमुत्तमगुडादि प्रापयन्ति
तथा । कथंभूताः । उशतीरुशत्योऽपत्यवृद्धिं कामयमानाः । पुत्रदुहित्रादिस्नेहवत्य
इति यावत् । किंच हे आपो वो युष्मान्वयमर्[मल्]मत्यर्थं शरणं गमाम प्राप्नुमः ।
कस्मै प्रयोजनाय शरणीकरणम्, यस्माद(यस्या)स्मदीयस्य पापजालस्य क्षयाय विप्र-

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग) · पृष्ठ 812, कुल 914 में से · SarvaKosh