सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 806, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 806

[ अनु० १ ] सभाष्यो दशमप्रपाठकः । ८०१
तृतीयमन्त्रमाह—
मृत्ति॑के॒ हर॑ मे पा॒पं यन्मया॑ दुष्कृ॒तं कृ॒तम् ।
मृत्ति॑के॒ ब्रह्म॑दत्ताऽसि॒ काश्य॒पेना॒भिम॑न्त्रिता ।
मृत्ति॑के॒ देहि॑ मे पु॒ष्टिं त्वयि॒ सर्वं॒ प्रति॑ष्ठितम् ( ८ ), इति ।
षट्पादेयमृङ्महापङ्क्तिच्छन्दस्का । हे मृत्तिके प्रशस्तमृद्यन्मया दुष्कृतमकर्तव्यं
पापं कृतं तद्धर विनाशय । किंच यतस्त्वं ब्रह्मणा परमात्मना दत्ता भूमिरूपेण
स्थापिता ब्रह्मदत्ताऽसि । ननु मामेवमभिमन्त्र्य कः स्नाति स्मेत्यत आह—काश्यपेन
तदुपलक्षितैः परमर्षिभिः स्नानादिकालेऽभिमन्त्रिता तद्दुष्कृतं च हतवत्यसि । अतः
शिष्टाचारप्राप्तत्वाद्यम[प्य]भिमन्त्रयाम इति भावः । किंच मे मह्यं पुष्टिं देहि । यतः
पृथिवीरूपायां त्वयि सर्वं चतुर्विधं भूतजातं प्रतिष्ठितं वर्तते । अतस्त्वय्यधिष्ठिताय मह्यं
पुष्टिं देहीत्यर्थः । अनन्यपदेन संबुद्धित्रयं भक्त्यतिशयप्रयोजनम् ।
चतुर्थमन्त्रमाह—
मृत्ति॑के॒ प्रति॑ष्ठिते॒ सर्वं॒ तन्मे॒ निर्णु॑द॒ मृत्ति॑के ।
तया॑ ह॒तेन॑ पा॒पेन॒ गच्छा॑मि पर॒मां गति॑म् , इति ।
प्रतितिष्ठन्ति प्राणिनोऽस्यामिति प्रतिष्ठिता तत्संबुद्धौ हे प्रतिष्ठिते मृत्तिके मे मत्स-
बन्धि तत्प्रसिद्धं सर्वं पापं निर्णुद विनाशय । हे मृत्तिके तया प्रसिद्धया त्वया पापेन
हतेनं सता सति तृतीया । पापे हते सतीत्यर्थः । परमां गतिमपवर्गं गच्छामि ।
एवं दूर्वा मृत्तिकां च दक्षिणहस्ते गृहीत्वा मन्त्रैरभिमन्त्र्याथेन्द्रादप्यभयादिकं प्रार्थ्यते
द्वाभ्यां मन्त्राभ्याम् । [ तत्र प्रथमं मन्त्रमाह— ]
यत॑ इन्द्र॒ भया॑महे॒ ततो॑ नो॒ अभ॑यं कृधि ।
मघव॑ञ्छ॒ग्धि तव॑ तन्न॑ ऊ॒तये॒ विद्द्विषो॒ विमृधो॑ जहि , इति ।
हे इन्द्र मघवन्यतोऽस्मात्पाप्मनो रिपोर्निर्याद्वा(च्च व)यं भयामहे बिभेम ततः
पापादिभ्यः सकाशात्नोऽस्मभ्यमभयं कृधि कुरु । निष्पापा निःशत्रवो निर्निर्या...
त्वत्प्रसादाद्भविष्याम इति भावः । न केवलं पाप्मादित्रितयादभयप्रदानमपि तु तत्पाप्मा-
दित्रितयं शग्धि शातय विनाशयेति यावत् । किंच भक्तत्वेन तव संबन्धिनां नोऽ
स्माकमूतये रक्षणाय विद्द्विषोऽन्तर्बहिः शत्रूञ्जहि संहर । कथंभूतान् । विमृधन्ति पीड-
यन्तीति विमृधस्तान् । किपि द्वितीयाबहुवचनम् ।
१०१