सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 798, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 798

दक्षं श्रौतस्मार्तकर्मानुष्ठानक्षममग्निं इधाना अग्निं जनयन्तः । वडवाग्नेः समुद्रोदके विद्यमान-
त्वात् । आप उदकानि चिद्विद्वांसो यः परमात्मा महिना महिम्ना । मलोपश्छान्दसः । पर्यपश्यन्नखिल-
जीवजीवने साधनत्वेनापश्यन् । यः परमात्मा सर्वेषु देवेष्वप्यधिकत्वेनैको देव आसीत् , तं परमा-
त्मानं विना कस्मै देवाय हविषा विधेम न कस्मैचित्किंतु तस्मैत्यर्थमेव । सप्त पाकयज्ञाः सप्त हविर्यज्ञाः
सप्त सोमसंस्था आहत्यैकविंशतिसंस्था अन्यत्पूर्तवापीकूपतटाकगोदानभूदानादि चानुष्ठाय समर्पयामः ।
व्याख्यातमन्यद्यत्किंचित् । )
अथेदानीं यथा हिरण्यगर्भादयः परमात्मन उपलक्षकास्तथा परमात्मना सृष्टं दिगा-
दिकं जगद्विस्फूर्तिश्च परमात्मानमुपलक्षयतीति मन्त्रद्वयेन दर्शयति—
ए॒ष हि दे॒वः प्र॒दिशोऽनु॒ सर्वाः॒ पूर्वो हि जा॒तः स उ॒ गर्भे॑ अ॒न्तः ।
स वि॒जाय॑मानः स ज॑निष्य॒माणः॑ प्र॒त्यङ्मुखा॑स्तिष्ठति वि॒श्वतो॑मुखः ॥
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् ।
सं बा॒हुभ्यां॒ नम॑ति॒ सं पत॑त्रैर्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एक॑:, ॥
[एष] विद्वद्भिरनुभूयमानो देवः स्वप्रकाशः परमात्मा प्रदिशः प्रकृष्टाः प्राच्याद्या
आग्नेय्याद्याश्च दिशः सर्वा अनुप्रविश्यावस्थितः । प्रवेशस्य श्रुत्यन्तरप्रसिद्धयर्थो
हिशब्दः । तथा पूर्वो जातो हिरण्यगर्भरूपत्वेनायमेव प्रथममुत्पन्नः । हिशब्देन
हिरण्यगर्भः समवर्ततेतिमन्त्रप्रसिद्धिः सूच्यते । स उ स एव परमेश्वरो गर्भेऽन्तर्ब्रह्मा-
ण्डरूपस्य गर्भस्य मध्ये वर्तते । स एव विजायमानो देवतिर्यगादिरूपेणेदानीं जायते
इतः परमपि जनिष्यमाणः स एव । स च प्रत्यङ्ङन्नमयादिकोशेभ्य आन्तरः ।
मुखा देहेन्द्रियाध्यक्षत्वेन मुख्यः । विश्वतः सर्वतो मुखानि रूपाद्युपलब्धिद्वाराणि चक्षुरा-
दीनि यस्य सो विश्वतोमुखस्तादृशोऽयं जगदधिष्ठानत्वेन तिष्ठति । स च ब्रह्माण्ड-
रूपदेहवत्त्वात्सर्वप्राणिनां च तद्देहस्वरूपत्वात्तदीयैः सर्वैश्चक्षुरादिभिर्युक्त इति विश्वत-
श्चक्षुरित्यादिभिः पदैरभिधीयते , तत्तल्लोकनिवासिनां प्राणिनां चक्षूंषि तत्र तत्र स्थिता-
न्येवैतदीयानि भवन्ति । अतोऽस्य सर्वतश्चक्षुष्मत्त्वम् । एवं विश्वतोमुखत्वादिकं द्रष्टव्यम् ।
स च परमेश्वरो बाहुभ्यां संनमति बाहुसदृशाभ्यां धर्माधर्माभ्यां निमित्तकारणाभ्यां
सर्वं जगद्वशी करोति । तथा संपतत्रैः पतनशीलैः पञ्चीकृतपञ्चमहाभूतैः संनमति सर्वं
जगदुत्पादयति । एवमयं द्यावापृथिव्यादिकं कृत्स्नं जगदुत्पादयन्नेक एवावतिष्ठते ।
उक्तार्थे श्रद्धातिशयमुत्पादयितुं मन्त्रद्वयेन गन्धर्ववृत्तान्तं दर्शयति—
वे॒नस्तत्प॑श्य॒न्विश्वा॒ भुव॑नानि वि॒द्वान्यत्र॒ विश्वं॒ भव॒त्येक॑नी॒ळम् ।
यस्मि॑न्नि॒दꣳ सं च॒ वि चैक॒ꣳ स ओतः॒ प्रोत॑श्च वि॒भुः प्र॒जासु॑ ॥
१००