सामग्री पर जाएँ
सर्वकोश
तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

Taittiriya Aranyaka with Sayanacharya Commentary

कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा

DevanagariSanskritpublished914 पृष्ठ

पृष्ठ 777, कुल 914 में से

संदर्भ में पढ़ें
पृष्ठ 777

७७२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [प्रपा० १० अनु० ६१]
पुरुषः स पंरमेष्ठी ब्रह्माऽऽत्मा— , इति ।
⸪ योऽयं संवत्सरः काल उक्तः सोऽसावादित्यस्वरूप एव । आदित्यगत्याभ्या*सेन
निष्पादित्वात् । य एष तस्मिन्नादित्यमण्डले पुरुषः स एव परमेष्ठी हिरण्यगर्भरूपः,
आदित्यमण्डलद्वारेण हिरण्यगर्भस्य प्राप्यत्वात् । स च परमेष्ठी ब्रह्म सर्वजगत्कारणं
वस्तु । तथैवाऽऽत्मा सर्वेषां प्रत्यगात्मभूतः ।
एवमादित्यादिद्वारा संवत्सरं प्रशस्य तमादित्यमण्डलद्वारेण सर्वव्यवहारहेतुतया
प्रशंसति—
याभि॑रा॒दित्यस्तप॑ति र॒श्मिभि॑स्ताभि॑ः पर्जन्यो॒ वर्ष॑ति पर्जन्ये॑-
नौषधिवनस्पतयः प्रजाय॑न्त॒ ओष॑धिवन॒स्पति॑भिर॒न्नं भव॑त्य॒न्नेन॑
प्राणाः प्रा॒णैर्बलं॒ बले॑न॒ तप॒स्तप॑सा श्र