तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
पृष्ठ 776, कुल 914 में से
संदर्भ में पढ़ेंसर्वं॒ प्रति॑ष्ठितं॒ तस्मा॑द्य॒ज्ञं प॑र॒मं वद॑न्ति—, इति ।
यज्ञ उत्तमं साधनमिति केचिदाहुः । यज्ञो हि देवानां प्रियः । ते हि देवाः
पूर्वमनुष्ठितेन यज्ञेन स्वर्गं प्राप्ताः । किंच यज्ञेनैव तदा तदा देवा असुरान्विनाशितवन्तः ।
किंच सर्वकामप्राप्तिसाधनेन ज्योतिष्टोमेन द्वेषशान्तिकामस्य पूर्वं द्वेषं कुर्वन्तोऽपि शत्रवो
मित्रा [ मित्राणि ] भवन्ति । अन्यत्पूर्ववत् ।
एकादशं साधनमाह—
मान॒सं वै प्रा॑जाप॒त्यं प॒वित्रं॑ मान॒सेन॒ मन॑सा सा॒धु
पश्य॑ति मान॒सा ऋष॑यः प्र॒जा अ॑सृजन्त मान॒से
सर्वं॒ प्रति॑ष्ठितं॒ तस्मा॑न्मान॒सं प॑र॒मं वद॑न्ति—, इति ।
मनसा निष्पाद्यं मानसमुपासनं यदस्ति तदेव प्राजापत्यं प्रजापतिपदप्राप्तिसाध-
नम्, अत एव पवित्रं चित्तशुद्धिकारणम् । मानसेनोपासनेन युक्तं मनोऽन्तःकरणं
यदस्ति तेनैकाग्रेण मनसा साधु पश्यति, अतीतानागतव्यवहितादिवस्तुजातं योगी
सम्यक्साक्षात्करोति । एतच्च योगशास्त्रे पतञ्जलिना बहुधा प्रपञ्चितम् । मानसा
एकाग्रमनोयुक्ता विश्वामित्रादय ऋषयः स्वसंकल्पमात्रेण बह्वीः प्रजा असृजन्त ।
अन्यत्पूर्ववत् ।
द्वादशं साधनमाह—
न्यास इत्या॑हुर्मनी॒षिणो॒ ब्रह्माण॑म्—, इति ।
न्यास इत्युक्तो यो मोक्षहेतुः, तं ब्रह्माणं हिरण्यगर्भरूपं मनीषिणो बुद्धिमन्तो
महर्षयः स्मृतिकर्तार आहुः । तथा च “ संन्यासाद्ब्रह्मणः स्थानम् ” इति स्मर्यते ।
हिरण्यगर्भप्राप्तेरन्तरङ्गसाधनत्वात्तद्रूपत्वम् ।
तमेव संन्यासं स्तोतुं तत्प्राप्यस्य हिरण्यगर्भस्य स्वरूपं प्रपञ्चयति—
ब्रह्मा विश्व॑ः कत॒मः स्व॑य॒म्भूः प्र॒जाप॑तिः संवत्स॒र इति॑—, इति ।
यो ब्रह्मा हिरण्यगर्भः सोऽयं विश्वः सर्वजगदात्मकः । कतमोऽतिशयेन सुख-
स्वरूपः । स्वयं॒भू३॑रुत्पादकाभ्यां मातापितृभ्यां विना स्वयमेवोत्पन्नः । प्रजापतिः
प्रजानां पालकः । संवत्सरः कालात्मकः । इतिशब्दः प्रदर्शनार्थः । इत्यादिसर्वस्व-
रूपत्वमुन्नेयमित्यर्थः ।
पुनरपि संन्यासस्तुतये हिरण्यगर्भावयवस्य संवत्सरस्य माहात्म्यं दर्शयति—
सं॒व॒त्स॒रोऽसा॑वादि॒त्यो य ए॒ष आ॑दि॒त्ये