तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)

तैत्तिरीय आरण्यक (सायण भाष्य एवं भट्टभास्कर भाष्य सहित सम्पूर्ण प्रथम भाग)
Taittiriya Aranyaka with Sayanacharya Commentary
कृष्ण यजुर्वेदीय महर्षि मण्डल (भाष्यकार: श्रीमत् सायणाचार्य) द्वारा
DevanagariSanskritpublished914 पृष्ठ
पृष्ठ 588, कुल 914 में से
संदर्भ में पढ़ेंपृष्ठ 588
- चतुर्थाधिकरणमारचयति—
“ समुदायावुभौ युक्तावयुक्तौ वाऽणुहेतुकः ।
एकोऽपरः स्कन्धहेतुरित्येवं युज्यते द्वयम् ॥
स्थिरचेतनराहित्यात्स्वयं चाचेतनत्वतः ।
न स्कन्धानामणूनां वा समुदायोऽत्र युज्यते ॥
बाह्यास्तित्ववादिनो बौद्धा मन्यन्ते । द्वौ समुदायौ बाह्य आभ्यन्तरश्चेति । तत्र
बाह्यो भूनदीसमुद्रादिकः । आन्तरश्चित्तचैत्यात्मकः । तदेतत्समुदायद्वयमेवाशेषं जगत् ।
तत्र बाह्यसमुदायस्य परमाणवः कारणम् । ते च परमाणवश्चतुर्विधाः । १केचित्खराः
पार्थिवाख्याः । अपरे स्निग्धा आप्याख्याः । अन्ये चोष्णास्तैजसाख्याः । अन्ये चेल-
नात्मका वायवीयाख्याः । तेभ्यश्चतुर्विधेभ्यः परमाणुभ्यो युगपत्पुञ्जीभूतेभ्यो बाह्यः
समुदायो जायते । आन्तरस्य समुदायस्य स्कन्धपञ्चकं कारणम् । रूपस्कन्धो विज्ञा-
नस्कन्धो वेदनास्कन्धः संज्ञास्कन्धः संस्कारस्कन्धश्चेति पञ्च स्कन्धाः । तत्र चित्तेन
निरूप्यमाणाः शब्दस्पर्शादयो रूपस्कन्धः । तदभिव्यक्तिर्विज्ञानस्कन्धः । तज्जन्यसुख-
दुःखे वेदनास्कन्धः । देवदत्तादिनामधेयं संज्ञास्कन्धः । एतेषां वासना संस्कारस्कन्धः ।
तेभ्यः पञ्चस्कन्धेभ्यः पूञ्जीभूतेभ्य आन्तरसमुदायो जायते । तस्माद्युज्यते समुदायद्वय-
मिति प्राप्ते ब्रूमः—किमणूनां स्कन्धानां३ च संघातापत्तौ निमित्तभूतश्चेतनोऽन्योऽस्ति ।
किंवा स्वयं संहन्यन्ते । आद्येऽपि स चेतनः स्थायी क्षणिको वा स्यात् । स्थायित्वेऽ-
पसिद्धान्तः । क्षणिकत्वे प्रथमं स्वयमलब्धात्मकः पश्चात्संघातापत्तिं करोतीति वक्तुम-
शक्यम् । द्वितीये त्वचेतनाः स्कन्धा ऽणवश्च नियामकं चेतनमन्तरेण प्रतिनियताका-
रेण कथं संहन्यन्ताम् । तस्मान्न युक्तं समुदायद्वयम्” ।
= पञ्चमाधिकरणमारचयति—
“विज्ञानस्कन्धमात्रत्वं युज्यते वा न युज्यते ।
युज्यते स्वप्नदृष्टान्ताद्बुद्धयैव व्यवहारतः ॥
अबाधात्स्वप्नवैषम्याद्वाह्यार्थस्तूपलभ्यते ।
बहिर्वदिति तेऽप्युक्तिर्नातो धीरर्थरूपभाक् ॥ इति ।
केचिद्बौद्धा बाह्यार्थमपलपन्तो विज्ञानस्कन्धमात्रं तत्त्वमित्याहुः । न चात्र व्यवहा-
रानुपपत्तिः स्वप्ने बाह्यार्थाननपेक्ष्य केवलया बुद्ध्या व्यवहारदर्शनात् ! तथैव जाग्रद्व्यव- - समुदाय उभयहेतुकेऽपि तदप्राप्तिः—ब्र० सू० अ०२ पा० २ अ० ४ सू० १८ । = ना-
भाव उपलब्धेः—ब्र० सू० अ० २ पा० २ अ० ५ सू० २८ ।
१ क. ख. ङ. °चित्स्थिराः । २ ग. च.न्तरिक्षात्मका । घ. च. तरलात्मका । ३ ख. ग. घ.
°षां सं° ।